________________
५-तत्त्वतत्त्वम् गा-२०८
२६७
मिथ्यादर्शनादिरूपः परिणामो जीवस्य, स चात्मानं पुद्गलांश्च मुक्त्वा कोऽन्यः ?, संवरोऽप्याश्रवनिरोधलक्षणो देशसर्वभेद आत्मनः परिणामो निवृत्तिरूपः, निर्जरा तु कर्मपरिशाटो जीवः कर्मणां यत्पार्थक्यमापादयति स्वशक्त्या, मोक्षोऽपि सकलकर्मविरहित आत्मैवेति, अन्यत्र पुनः पुण्यपापयोबन्धेऽन्तर्भावात् सप्तैव तत्त्वान्युक्तानि ।।९७४ ।।
चक्रे० : अथ यथोद्देशं निर्देश इति जीवतत्त्वं विवृण्वन्ति - देव० : अथ प्रत्येकमेतान् विवरितुकामो यथोद्देशं निर्देश इति न्यायादादौ जीवतत्त्वं विवृणोति -
एगविह-दुविह-तिविहा चउहा पंचविहछविहा जीवा ।
चेयण तस इयरेहिं वेयगइकरणकाएहिं ।।२०८।। चक्रे० : एकविधादयो जीवा भवन्ति, कथमिति क्रमेणाहुः 'चेयण'इत्यादि । चेतनया एकविधाः सर्वजीवानां तदव्यभिचारात्, त्रस्यन्तीति त्रसा इतरे च स्थावरास्तेषां भावस्तत्त्वं तेन द्विविधाश्चराऽचररूपत्वात् सर्वजीवराशेः, एवमुत्तरत्राऽपि लक्षणानां व्यापकत्वं ज्ञेयम्, वेदैः स्त्रीनपुंसकैस्त्रिविधाः, गतिभिर्नारकतिर्यग्नरामररूपाभिश्चतुर्दा, करणैः स्पर्शनादिभिरिन्द्रियैः पञ्चविधाः, कायैः पृथ्वीकायादिभिः षड्विधाः।।२०८ ।।
देव० : एकविधद्विविधत्रिविधाश्चतुर्दा पञ्चविधषड्विधा जीवा भवन्तीति शेषः, कथमिति क्रमेणाह 'चेयण'इत्यादि, चेतनया एकविधाः, सर्वसत्त्वानां तदव्यभिचारात्, त्रसाश्च चरा इतरे च स्थावरास्तेषां भावस्तत्त्वम्, तेन च द्विविधाश्चरत्वाचरत्वलक्षणसङ्ग्रहीतत्वात् सकलसंसारिसत्त्वराशेरेवमुत्तरत्रापि लक्षणानां व्यापकत्वमभिधेयमिह च सूत्रे लुप्तभावप्रत्ययं पदमुपात्तमिति। वेदैः स्त्रीपुंनपुंसकैस्त्रिविधाः, गतिभिर्नारकतिर्यङ्नरामरलक्षणाभिश्चतुर्द्धा, करणैः स्पर्शनादिभिरिन्द्रियैः पञ्चविधाः, कायैः पृथ्वीकायादिनिकायैः षड्विधाः ।।
नन्वयं भित्तिं विना चित्रकर्मप्रबन्धप्रारम्भः, जीवमेव [न] मन्यामहे, तत्कुतस्तद्भेदपरिकल्पनम्, तथाहि - नास्त्यात्मा, अनुपलम्भात्, वियदरविन्दवत्, न च हेतोरसिद्धत्वम्, न ह्यसौ शरीरे शरीरव्यतिरिक्तो वा भवान्तरं गच्छन् प्रत्यक्षत उपलभ्यते । न च चैतन्योपलम्भात्तत्सिद्धिस्तस्य भूतधर्मत्वात्, तथाहि - पृथिव्यप्तेजोवायुरिति तत्त्वानि । एतेभ्यश्चैतन्यं मद्याङ्गेभ्यो मदशक्तिवदिति । अत्र प्रतिविधीयते। अनुपलम्भादितिहेतुः स्वसम्बन्धीसर्वसम्बन्धी वा, यदि स्वसम्बन्धी तन्न, स्वयं घटादिवत्तस्योपलम्भात्, यथैव हि घटगता रूपादय उपलभ्यन्ते तथात्मगता