________________
२६६
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
तत्त्वानां नवसङ्ख्यत्वं मध्यमप्रस्थानापेक्षया, अन्यथा सङ्क्षपापेक्षया जीवाजीवयोरेव बन्धादीनामन्तर्भावसम्भवाद् द्वित्वमेव, विस्तरतस्तु तदुत्तरोत्तरभेदविवक्षयाऽऽनन्त्यमेव स्यादिति गाथासक्षेपार्थः ।।२०७।।
* नवतत्त्वप्रकरणे-४ * जीवादिनवपदार्थज्ञाने सम्यक्त्वमित्युक्तम् । तत्र के जीवादयः ? इति शङ्कासम्भवे सूत्रकार एवं तान्नामग्राहमाह -
जीवाजीवा पुग्नं पावासवसंवरो य निज्जरणं ।
बन्धो मोक्खो य तहा नवतत्ता होंति नायव्वा ।। जीवाश्चोपयोगलक्षणा अजीवाश्च तद्विपरीता जीवाजीवाः, पुण्यं शुभोदयप्रकृतयः, पापं च तद्विपरीतम्, आश्रूयते कर्मोपादीयते येन स आश्रवश्च कर्मोपादानहेतुः, पापाश्रवौ तत्सहितः संवरस्तनिरोधलक्षणः पापाश्रवसंवरः, चः समुञ्चये, निर्जरणं पूर्वोपात्तकर्मपरिशाटः, बन्धो जीवप्रदेशानां कर्मपुद्गलैरन्योन्यानुगमात्मकसम्बन्धः, मोक्षः सकलकर्मविगमः । चः पूर्ववत् । तथा अनेन वस्तुत्वप्रकारेण नवतत्त्वानि नवसंख्यपदार्था भवन्ति जायन्ते, ज्ञातव्यानि बोद्धव्यानि । इति गाथार्थः ।।४।।
* प्रवचनसारोद्धारे-९७४ * अथ नव पदान्याह
जीवाजीवा पुन्नं पावाऽऽसव संवरो य निज्जरणा ।
बंधो मोक्खो इमाइं नव पयाइं जिणमयंमि ।। 'जीवेत्यादि, जीवाः सुखदुःखोपयोगलक्षणा अजीवास्तद्विपरीता धर्मास्तिकायादयः पुण्यं शुभप्रकृतिरूपं कर्म, पापं तद्विपरीतं कमैव, आश्रवति-आगच्छति कर्मानेनेत्याश्रवः शुभाशुभकर्मोपादानहेतुहिँसादिः, संवरणं संवरो गुप्त्यादिभिराश्रवनिरोधः, निर्जरणं निर्जरा विपाकात्तपसो वा कर्मणां देशतः क्षपणं बन्धो जीवकर्मणोरत्यन्तसंश्लेषः, मोक्षः कृत्स्नकर्मक्षयादात्मनः स्वात्मन्यवस्थानम्, इत्येतानि नवसङ्ख्यानि पदानि तत्त्वानि जिनमतेऽर्हत्प्रवचने विज्ञेयानीति, इह च आश्रवबन्धपुण्यपापानि मुख्यं संसारकारणमिति हेयानि, संवरनिर्जरे मुख्यं मोक्षकारणम्, मोक्षस्तु मुख्यं साध्यमित्येतानि त्रीण्यप्युपादेयानीत्येवं शिष्यस्य हेयोपादेयतापरिज्ञानार्थं मध्यमप्रस्थानापेक्षया नवेत्युक्तम्, अन्यथा सक्षेपापेक्षया जीवाजीवयोरेव पुण्यपापादीनामन्तर्भावसंभवाद् द्वित्वसङ्ख्ययैवाभिधेयं स्यात्, तथा चोक्तं स्थानाङ्गे-'जदत्थिं च णं लोए तं सव्वं दुपडोयारं, तंजहा-जीवा चेव अजीवा चेव 'त्ति, विस्तरतस्तु तदुत्तरोत्तरभेदविवक्षयाऽऽनन्त्यमेव स्यात्, अथ कथं जीवाजीवयोरेव पुण्यपापादीनामन्तर्भावसम्भव इति चेदुच्यते-पुण्यपापे कर्मणी बन्धोऽपि तदात्मक एव कर्म च पुद्गलपरिणामः पुद्गलाश्चाजीवा इति, आश्रवस्तु