SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ ५- तत्त्वतत्त्वम् चक्रे० : अथ मूलद्वारगाथाक्रमप्राप्तं पञ्चमतत्त्वं व्याख्यायते, संबन्धश्चास्य पूर्वेण सह पूर्वं गुरुस्वरूपमुक्तम्, गुरुश्च तत्त्वानि गृणातीत्यतस्तत्त्वाख्यं तत्त्वमुच्यते, तत्रादौ गाथा - देव० : अथ मूलद्वारगाथाक्रमप्राप्तस्य पञ्चमतत्त्वस्य व्याख्या प्रतन्यते, सम्बन्धश्च पूर्वेण सहास्य पूर्वं गुरुस्वरूपमुपवर्णितम्, गुरुश्च तत्त्वानि गृणातीति सम्बन्धादत्र तत्त्वानि प्रतिपाद्यन्ते, तत्रादौ– जीवाजीवा पुत्रं पावासवसंवरो य निज्जरणा । बंधो मुक्खो यतहा नवतत्ता हुंति नायव्वा । । २०७ ।। चक्रे० : १-जीवश्चिद्वान्, २-अजीवो निश्चेतनः, ३- पुण्यं शुभप्रकृतिरूपम्, ४-पापमशुभप्रकृतिरूपम्, ५-आश्रवत्याऽऽगच्छत्यनेन कर्मेत्याश्रवो हिंसादिः, ६-संवरणं संवर आश्रवनिरोधः, ७- निर्जरणं निर्जरा विपाकात् तपसो वा कर्मपरिशाटः, ८-बन्धो जीवकर्मणोरत्यन्ताऽऽश्लेषः, ९- मोक्षः सर्वकर्ममुक्तस्याऽऽत्मनः स्थितिः चैवार्थे । एतान्येव नवतत्त्वानि तथा सिद्धान्तोक्तप्रकारान्तरेण ज्ञातव्यानि न तु कुतीर्थिककल्पितानि ।। २०७ ।। , देव० : तत्र जीवितवन्तो जीवन्ति जीविष्यन्ति चेति जीवाः, व्युत्पत्तिनिमित्तं चेदम्, प्रवृत्तिनिमित्तं तु संविल्लक्षणत्वमेव, तेन सिद्धैर्न व्यभिचारस्ततो जीवाश्च तद्विपरीता अजीवाश्चेति द्वन्द्वः, पुण्यं शुभप्रकृतिरूपं तीर्थकरनामादि, पापमशुभं मिथ्यात्वादि, विभक्तिलोपश्च प्राकृतत्वाद्, एवमुत्तरत्रापि, आश्रवत्यागच्छत्यनेन कर्मेत्याश्रवः कर्मोपादानहेतुर्हिसादिः, संवरणं संवरो गुप्त्यादिभिराश्रवनिरोधः, चः समुच्चये, निर्जरणा निर्जरा विपाकात्तपसो वा कर्मपरिशाटः, बन्धो जीवकर्मणोरत्यन्तसंश्लेषः, मोक्षः कृत्स्नकर्मक्षयात् स्वात्मन्यवस्थानम्, चकारोऽवधारणे, एतान्येव तत्त्वानि, न पुनः सुगतसाङ्ख्योलूकादिपरिकल्पितानि तेषां विचाराक्षमत्वात् । तथा तेनागमोक्तप्रकारेण नवतत्त्वानि, प्राकृतत्वात् पुंसा निर्देशः भवन्ति ज्ञातव्यानि । इह च
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy