________________
२६४
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
देव० : गुरुकर्मणां जीवानामसमञ्जसचेष्टितानि तथा तथा प्रवचनप्रतिषिद्धाचरणानि, दृष्ट्वा निन्दा दोषभाषणं प्रद्वेषं मात्सर्यं मनागपीषदपि सर्वथात्मपरोभयैः सम्यगन्तःकरणशुद्धया विवर्जयतेति गाथार्थः ।।२०५ ।।
चक्रे० : अन्यच्च - देव० : अन्यच्च -
दूसमकालसरूवं कम्मवसित्तं च तेसिं जीवाणं ।
भावेह कुणह गुरुआयरं च गुणवंतपत्तेसु ।।२०६।। चक्रे० : सुगमा ।।२०६।। ।। इति पूज्यश्रीचक्रेश्वरसूरिप्रारब्धायां तत्प्रशिष्यश्रीतिलकाचार्यनिर्वाहितायां
___ सम्यक्त्ववृत्तौ समर्थितं चतुर्थं साधुतत्त्वम् ।। देव० : दुःषमकालस्वरूपं कर्मवशित्वं च तेषां दुःषमासमयोद्भवानां जीवानां भावयत विचिन्तयत, अत एव दुर्लभत्वाद् गुणवतां कुरुत गुर्वादरं च गुणवत्पात्रेषु, इह च गुणवत्प्रतिपत्तिमितरवर्जनं च पुनःपुनरुपदिशन्निदमेवैहिकामुष्मिकार्थसाधकमित्यावेदयतीति गाथार्थः । ।२०६।।
।। इति श्रीदेवभद्रसूरिविरचिते दर्शनशुद्धिप्रकरणविवरणे
चतुर्थं साधुतत्त्वं समाप्तम् ।।श्रीरस्तु।।
१. सव्वजीवाणं PK