________________
४-साधुतत्त्वम् गा-२०५
२६३
चक्रे० : मा आकर्णयत मा च मन्यध्वं कुतीथिकानां गिरम्, सूत्रोत्तीर्णः कुबोध एव कुग्रहस्तस्य ग्रहस्तेन ग्रस्तानामन्येषामपि स्वयूथ्यानां गिरं माऽऽकर्णयत मा च मन्यध्वम् । तथा ज्ञानिनां चरणोद्यतानां चादरान्निःशेषं कृत्यं कृतिकर्मादि कुरुत, जनरञ्जनार्थं चोचितं आलापनमस्कारादिलिङ्गावशेषाणमपि कुरुतेति वृत्तार्थः । ।२०४।।
देव० : किम् ? न किञ्चिदित्यर्थः, बहुनोक्तेनेति शेषः, सङ्क्षपस्यैव प्रक्रान्तत्वाद् मा आकर्णयत ? कदाचिदाकर्णनेऽपि मा च मन्यन्तामभ्युपगच्छत गिरं वाचं कुतीथिकानां शाक्यादीनाम्, तथा तेनैव प्रकारेण सूत्रोत्तीर्णोऽत एव कुत्सितो बोधस्तेन कुग्रहः कदभिनिवेशः स एव ग्रहस्तेन ग्रस्तानां स्वीकृतानामन्येषामपि स्वयूथ्यानां गिरमिति सक्रियमिहापि सम्बध्यते । तथा च कल्पभाष्यम् -
जो तं जगप्पईवेहिं पणीयं सव्वभावपन्नवणं ।
न कुणइ सुयं पमाणं न सो पमाणं पवयणंमि ।। [ ] ज्ञानिनां चरणोद्यतानां च, चकारो ज्ञानचरणयोः समुदितयोरेव प्रामाण्यमावेदयति, यदाह
नाणाहीणं सव्वं नाणनओ भणइ किंच किरियाए ।
चरणनओ किरियाए तदुभयगा होइ समत्तं ।। [ ] इति । तथा सूत्रभणितप्रकारेण निःशेषं कृत्यं कृतिकर्मादि कुरुतादरात् सर्वप्रयत्नेन, लिङ्गमेवावशेष उद्धरितं येषाम्, न पुनर्ज्ञानादि, तेषामपि जनरञ्जनार्थमुचितमालापनमस्कारादि कुरुतेति वृत्तार्थः ।।२०४।।
चक्रे० : तथा - देव० : तथा –
गुरुकम्माण जियाणं असमंजसचिट्ठियाणि दगुण ।
निंदपओसं मणयंपि सव्वहा संविवज्जेज्जा।।२०५।। चक्रे० : स्पष्टा, नवरं निन्दा दोषभाषणं प्रद्वेषं मात्सर्यं मनागपीषदपि सर्वथा सम्यग् विवर्जयत ।।२०५।।
१. स्वीयकृतानाम् T,B,C२. लिङ्गमेवाविशेष A, ३. चेट्ठियाणि A चेट्ठियाई 2 ४. संविज्जेह T,B.C