________________
२६२
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
अतो द्वयोरपि भगवदुक्तत्वेन निर्जराहेतुत्वम्, केवलमशाठ्येन सम्यग्विषयविभागः विवेचनीय इति गाथार्थः ।।२०३।।
* बृहत्कल्पभाष्ये-३२१ * उन्नयमविक्ख निन्नस्स पसिद्धि उन्नयस्स निन्नाओ ।
इय अन्नुन्नपसिद्धा उस्सग्गऽववाय मो तुल्ला ।। यथोत्रतमपेक्ष्य निम्नस्य प्रसिद्धिनिम्नाञ्चोत्रतस्य प्रसिद्धि इत्येवमन्योऽन्यप्रसिद्धावुत्सर्गादपवादोऽपवादादुत्सर्गः प्रसिद्ध इति द्वावप्सुत्सर्गाऽपवादौ तुल्यौ ।
तदेवमुत्सर्गापवादद्वारमुक्तम् । इदानीमल्पद्वारमुच्यते । शिष्यः पृच्छति-भगवन् ! किमुत्सर्गा अल्पे ? उतापवादाः ? उच्यते-तुल्याः ।।३२१ ।।
* उपदेशपदे-७८४ * अथोत्सर्गापवादयोस्तुल्यसंख्यत्वमाह -
उन्नयमवेक्ख इयरस्स पसिद्धी उन्नयस्स इयराओ ।
इय अन्नोनपसिद्धा उस्सग्गववाय मो तुल्ला ।। उन्नतमुचं पर्वतादिकमपेक्ष्येतरस्य नीचस्य भूतलादेः प्रसिद्धिर्बालाबलादेर्जनस्य प्रतीतिः तथोत्रतस्योक्तरूपस्येतरस्माद् निम्नात् तदपेक्ष्येत्यर्थः प्रसिद्धिः सम्पद्यते । एवं सति यत् सिद्धं तदाहइत्येवमुक्तदृष्टान्तादन्योन्यप्रसिद्धाः परस्परमपेक्षमाणाः प्रतीतिविषयभावभाजः सन्त उत्सर्गापवादास्तुल्याः समानसंख्याः सम्पद्यन्त इति ।।७८४ ।।।
चक्रे० : अथ पर्यवसितमर्थं किं बहुनेति प्रस्तावनापूर्वमाहुः - देव० : अथ विस्तरप्रसङ्ग वाक्यखण्डेन निरुन्धन्नुक्तानुक्तार्थसंग्रहं संक्षिप्य शार्दूलेनाह - किं बहुणा -
मा आयनह मा य मनह गिरं कुतित्थियाणं तहा, सुत्तुत्तिनकुबोहकुग्गहगहग्घत्थाणमन्त्राण वि । नाणीणं चरणुज्जयाण य तहा किञ्चं करेहायरा; निस्सेसं जणरंजणत्थमुचियं लिंगावसेसाणवि।।२०४।।
१. चरणुज्जुयाण A.K.2 २. लिंगाविसेसाण A