SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ ५-तत्त्वतत्त्वम् गा - २१४, २१५ चक्रे० : अथ जीवगतप्राणाद्यभिधित्सया द्वारगाथामाहुः देव० : अथ जीवगतप्राणादिद्वारप्रतिपिपादयिषया द्वारगाथामा पाणा पज्जत्तीओ तणुमाणं आउयं च कायठिई । लेसा संजमजोणी एएसिं जाणियव्वाइं । । २१४।। २७५ चक्रे० प्राणा इन्द्रियाद्याः, पर्याप्तय आहारादिग्रहणादिसामर्थ्यानि, तनुमानं शरीरपरिमाणम्, आयुर्जीवितम्, काये पृथ्वीकायादिनिकाये स्थितिरवस्थानं कायस्थितिः, लेश्या आत्मपरिणामविशेषाः, संयमस्य योनिः सत्यमनोयोगादिस्तत्प्रभवत्वात् संयमस्य । एतेषां प्रस्तावाज्जीवानां ज्ञातव्यानीति द्वारगाथार्थः । । २१४ ।। देव : प्राणन्त्येभिरिति प्राणा इन्द्रियादयः, पर्याप्तय आहारादिग्रहणादिसामर्थ्यानि, तनुमानं शरीरपरिमाणम्, एति याति चेत्यायुर्जीवितम्, च शब्दोऽनुक्तसमुच्चये सर्वान्ते च सम्भन्त्स्यते । काये पृथिवीकायादिनिकाये स्थितिरवस्थानम् । लेश्याः कृष्णादिद्रव्यसाचिव्यादात्मनः परिणामविशेषाः, यदाहुः कृष्णादिद्रव्यसाचिव्यात् परिणामो य आत्मनः । स्फटिकस्येव तत्रायं लेश्याशब्दः प्रयुज्यते ।। [ ] संयमः सावद्याद्विरतिः, युवन्ति मिश्रीभवन्ति कार्मणशरीरिण औदारिकादिशरीरैरासु जन्तवो सेवता इति वा योनय उत्पत्तिस्थानानि चकाराद्योगोपयोगगुणस्थानमार्गणास्थानानि चैतेषां प्रस्तावाज्जीवानां ज्ञातव्यानीति द्वारगाथार्थः । । २१४ ।। चक्रे० : तत्रादौ प्राणद्वारं विवृत्य हिंसास्वरूपमाहुः - देव० : अथ यथोद्देशं निर्देश इति न्यायतः प्रथमं प्राणद्वारं विवृत्य प्रसङ्गतो हिंसास्वरूपमाहपंचिंदिय - तिविहबलं नीसासूसासआउयं चेव । दसपाणा पन्नत्ता तेसिं विघाओ भवे हिंसा । । २१५ । । चक्रे० : पञ्चेन्द्रियाणि स्पर्शनादीनि त्रिविधबलं मनोवाक्कायजनितः शक्तिविशेषो निःश्वासोच्छ्वासमध ऊर्ध्वाऽनिलप्रचारः, आयुर्जीवितम् एते दश प्राणाः प्रज्ञप्तास्तीर्थकरादिभिः, तेषां विघातो वियोजनं भवेद्धिंसा, न तु जीवस्य विनाशस्तस्याऽप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वात्।। २१५ ।। १. कायठिझं T, C
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy