________________
२६०
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
चक्रे० : निगमनमाहुः - देव० : निगमनमाह -
ता दब्बओ य तेसिं अरत्तदुद्वेण कज्जमासज्ज ।
अणवत्तणत्थमीसिं कायव्वं किंपि नो भावा।।२०२।। चक्रे० : ततो द्रव्यतस्तेषामरक्तद्विष्टेन साधुना कार्यं ज्ञानादिकमासाद्याऽनुवर्त्तनार्थमीषद्वाङ्नमस्कारादि कर्त्तव्यम्, न किमपि भावतः, तथा च -
वायाए नमोक्कारो - हत्थुस्सेहो य सीसनमणं वा ।
संपुच्छणऽच्छणं - छोभवंदणं - वंदणं वावि ।। [आव.नि. ११२७] ।।२०२।। देव० : तत्तस्माद् द्रव्यतस्तुरेवकारार्थे, तेषामरक्तदुष्टेन साधुनेति गम्यम्, कार्य ज्ञानचरणादिकमासाद्याऽनुवर्त्तनार्थमीषन्नमस्कारमात्रादिकं कर्त्तव्यम्, न पुनः किञ्चिदपि भावतः, तथा चात्रागमः
वायाए - नमोक्कारो-हत्थुस्सेहो य - सीसनमणं वा । संपुच्छणऽच्छणं - छोभवंदणं वंदणं वावि ।। परियायपरिसपुरिसं खेत्तं कालं च आगमं नाउं । कारणजाए जाए जहारिहं जस्स जं जोग्गं ।। एयाइं अकुव्वंतो जहारिहं अरिहदेसिए मग्गे ।
न भवइ पवयणभत्ती अभत्तिमंताइया दोसा ।। [आव.नि. ११२७,२८,२९] अभक्त्यादयोऽभक्तिप्रद्वेषस्वार्थभ्रंशबन्धनादयो दोषा इति गाथार्थः । ।२०२।।
* उपदेशपदे-८४३ * ता दव्वओ य तेसिं अरत्तदुद्रुण कज्जमासज्ज ।
अणुवत्तणत्थमेसिं कायव्वं किंपि ण उ भावा ।। यत एवमनुवर्तनायां दोषः, तत् तस्माद् द्रव्यतस्तु कायवाङ्मात्रप्रवृत्तिरूपादेव तेषामगीतार्थादीनाम्, अरक्तद्विष्टेन रागद्वेषयोरन्तरालवतिना सता कार्यं निरुपवासलक्षणमाश्रित्यानुवर्तनार्थमनुकूलभावसम्पादननिमित्तम्, एषामगीतार्थादीनां कर्त्तव्यं किमपि वचनसंभाषादि, न तु भावाद् बहुमानरूपात् । कलाध्ययनोक्तश्चेत्थमेतद्वन्दनाविषयोऽपवाद उपलभ्यते । यथा -
१. अणुयत्तणत्थमीसिं T.C,Z अणुयत्तणत्थमीसं A २. आलपत्ते नमुक्कारो A,T,B.C