________________
४- साधुतत्त्वम् गा - २०१
विपर्यये बाधकमाह
-
* उपदेशपदे- ८४२ *
२५९
इहरा सपरुवघाओ उच्छुभाईहिं अत्तणो लहुया । तेसिंपि पावबंधो दुगंपि एवं अणिट्ठति ।।
इतरथा तेषामननुवर्तनया वासे क्रियमाणे स्वपरोपघातः सम्पद्यते । एनमेव दर्शयति तत्रोत्क्षोभो हेरिकाचौर्याद्यध्यारोपरूपः, आदिशब्दात् कथञ्चित् कस्यचित् प्रमादाचरितस्योपलब्धस्य मत्सरातिरेकात् । सुदूरविस्तारणम्, तथाविधकुलेष्वन्नपानादिव्यवच्छेदश्च गृह्यते, ततस्तैरात्मनः स्वस्य लघुताऽनादेयरूपता भवति तेषामपि पापबन्धो बोधिघातफलः, न केवलं स्वस्य तन्निमित्तभावेनेत्यपिशब्दार्थः । एवं च सति यत् स्यात् तद्दर्शयति-द्विकमप्येतत् पूर्वोक्तमनिष्टं दुर्गतिपातकारि जायते । इतिः पूर्ववत् ।।८४२ ।। * जीवानुशासने - ८९, ९०* अस्यैवार्थस्य साधनार्थमुपदेशपदोक्तं गाथाद्वयमाह
अगीयादाइने खेत्ते अन्नत्थ ठिइअभावम्मि । भावाणुवघायणुवत्तणाए तेसिं तु वसियव्वं ।। इहरा सपरुवघाओ उच्छोभाईहिं अत्तणो लहुया । तेसिंपि पावबंधो दुगंपि एवं अणिट्टंतु ।।
अगीताद्याकीर्णे श्रुतार्थानभिज्ञपार्श्वस्थाद्याकुले क्षेत्रे ग्रामादावन्यत्र नगरादौ निर्वाहाभावतः स्थित्यभावेऽविद्यमानवा भावानुपघातानुवर्तनया चित्तासङ्क्लेशेनाऽऽनुकूल्येन च तेषामगीतादीनां तु पादपूरणे वस्तव्यम् । व्यतिरेकमाह - इतरथाऽनुवर्त्तनाद्यभावे स्वपरोपघात आत्मान्यसंक्लेशः, 'उच्छो भाईहिं' ति असद्दोषाविष्करणादिभिः, आदिशब्दादपकारादिग्रहः, आत्मनः स्वस्य लघुता माहात्म्याभावः, तेषां पुनरगीतादीनामपि तु पुनरर्थः, स च योजित एव, पापबन्धः कलुषोपचयः । द्वयमप्येतत् पूर्वोक्तमनिष्टमेव । तुरेवकारार्थः, स च दर्शित एव । न चैतदनार्षम्, प्रकरणोक्तत्वात् । यतो निशीथे भणितं - 'खेत्तं तु ओसन्नाइ भावियं तत्थ तयाणुवत्ती वसियव्वं' तथा पञ्चकल्पेऽपि भणितम्'अणाययणं वज्जयंतेणं विहारो कायव्वो । के उण अणायणा ? भन्नइ - पासत्थाइणो कुलिंगिणो य ।' एतच्च विशुद्धयत्यपेक्षया बोद्धव्यम् । ये पुनः पूर्वोक्तयुक्त्या पार्श्वस्थादयः सुतरां विवाद एव न कार्य इति गाथाद्वयार्थः ।।८९, ९० ।।