SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् चक्रे० : अगीतार्थादयः पार्श्वस्थाद्यास्तैराकीर्णे व्याप्ते भाविते क्षेत्रे नगरादौ, अन्यत्र स्थित्यभावेऽवस्थानयोग्यक्षेत्रान्तराऽभावे, भावस्य चारित्रपरिणामस्यानुपघातेन मनःकालुष्यहेतुतत्कलहत्यागेन तेषामनुवर्त्तनया वाङ्नमस्काराद्यानुकूल्येन वस्तव्यम् । क्षेत्रान्तरे तु सति तद्भाविते न वस्तव्यमित्यर्थः । । २०० ।। २५८ देव० : अगीत इत्येकदेशेऽपि समुदायावगमादगीतार्थस्ततश्च - 'गीयं मुणितेगवं विदियत्थं खलु वयंति गीयत्थं' इति वचनाद् गीतो ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च विदितोऽर्थो येन स गीतार्थः, न तथा पार्श्वस्थ इत्यर्थः स आदिर्येषामवसन्नादीनाम्, तैराकीर्णे व्याप्ते भावित इति यावत्, क्षेत्रे नगरादावन्यत्र क्षेत्रान्तरे, स्थीयत एभिरिति स्थितयोऽवस्थानकारणानि, तासामभावे, अवस्थानयोग्यक्षेत्रान्तरे सति पार्श्वस्थादिभाविते वस्तव्यमेव नेति भावः । तेषां पार्श्वस्थादीनां तुर्विशेषणे दर्शयिष्यते च भावस्य चारित्रपरिणामस्यानुपघातेन मनःकालुष्यहेतुतत्कलहत्यागेनेति हृदयम्, अनुवर्त्तनया चानुकूल्येन वाङ्नमस्कारादिलक्षणेन पुनर्वस्तव्यमिति गाथार्थः । । २०० ।। * उपदेशपदे- ८४१ * ननु प्रमत्तपाखण्डिजनाकुलत्वात् प्रायो विहारक्षेत्राणामशक्यमालापादिवर्जनमित्याशङ्क्याह अग्गीयादाइण्णे खेत्ते अणत्थ ठिइअभावम्मि | भावाणुवघायणुवत्तणाए तेसिं तु वसियव्वं ।। गीताद्याकीर्णेऽगीतार्थैरादिशब्दाद् गीतार्थैरपि मन्दधर्मैः पार्श्वस्थादिभिस्तीर्थान्तरीयैश्च भागवतादिभिराकीर्णे समन्ताद् व्याप्ते क्षेत्रे, अन्यत्रागीतार्थाद्यनाकीर्णक्षेत्रे दुर्भिक्षराजदौस्थ्याद्युपप्लववशेन स्थित्यभावे सति भावानुपघातेन सम्यक्प्रज्ञापनारूपस्य शुद्धसमाचारपरिपालनरूपस्य च भावस्यानुपघातेन याऽनुवर्तना 'वायाए णमोक्करो' इत्यादिरूपानुवृत्तिस्तया तेषां तु तेषामेव वसितव्यं तत्र क्षेत्रे । एवं हि तेऽनुवर्त्तिताः स्वात्मनि बहुमानवन्तः कृता भवन्ति, राजव्यसनदुर्भिक्षादिषु साहाय्यकारिणश्चेति ।। ८४१ ।। चक्रे ० / देव० : अन्यथा दोषमाह इहरा सपरुवघाओ उच्छोभाईहिं अत्तणो लहुया । तेसिं पि पावबंधो दुगं पि एवं अणिट्टं ति । । २०१ । । चक्रे० / देव० : इतरथा तदकरणे स्वपरोपघातस्तथा चोत्प्राबल्येन गता शोभा यस्मात्तदुच्छोभमालप्रदानम्, तदादिभिरादिशब्दात्कलहादिभिरात्मनो लघुता लाघवम्, तेषामपि पापबन्धो गुणिजनप्रद्वेषाद्, द्वयमपि चैतदनिष्टमिति प्रक्रमसमाप्ताविति गाथार्थः । । २०१ । । १. विइयत्यं B, C
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy