________________
४-साधुतत्त्वम् गा-१९९, २००
२५७
चक्रे० : आज्ञालोपिषु तर्हि का वार्तेत्याहुः - देव० : आज्ञाविरहितेषु तर्हि का वार्तेत्याह -
इयरेसु वि य पओसो नो कायव्वो भवढिई एसा ।
नवरं विवज्जणिज्जा विहिणा सय मग्गनिरएणं ।।१९९।। चक्रे० : इतरेष्वप्याज्ञाविकलेष्वपि प्रद्वेषो मत्सरो न कर्त्तव्यः, भवस्थितिरेषा कर्मवैचित्र्याज्जघन्यमध्यमोत्तमजन्तुभिर्भाव्यमिति चिन्त्यम् । नवरं विवर्जनीया आलापाद्यैविधिना सूत्रनीत्या । सदा मार्गनिरतेन सिद्धान्तोक्तनीतिवर्तिना।।१९९ ।।
देव० : इतरेष्वप्याज्ञाविकलेषु प्रद्वेषो मत्सरो न कर्त्तव्यः, यतो भवस्थितिरेषा यद्विचित्रकर्मपरिणतेरेव जघन्यमध्यमोत्तमैर्जन्तुभिर्भाव्यमिति । नवरं केवलं विवर्जनीया आलापादिभिर्विधिना सूत्रनीत्या सदा मार्गनिरतेन समयोक्तनीतिवर्तिनेति गाथार्थः ।।१९९।।
* उपदेशपदे-८४० * इयरेसुंपि य पओसो णो कायव्वो भवट्ठिई एसा ।
णवरं विवज्जणिज्जा विहिणा सइ मग्गणिरएण ।। इतरेष्वपि जिनवचनप्रतिकूलाऽनुष्ठानेषु समुपस्थितदुर्गतिपातफलमोहाद्यशुभकर्मविपाकेषु लोकोत्तरभिन्नेषु जन्तुषु प्रद्वेषो मत्सरस्तद्दर्शने तत्कथायां वाऽक्षमारूपो नो नैव कर्तव्यः । तर्हि किं कर्तव्यमित्याशङ्क्याह-भवस्थितिरेषा, यतः कर्मगुरवोऽद्याप्यकल्याणिनो न जिनधर्माचरणं प्रति प्रहपरिणामा जायन्त इति चिन्तनीयम्। तथा, नवरं केवलं विवर्जनीया आलापसंलापविश्रम्भादिभिः परिहरणीया विधिना विविक्तग्रामनगरवसत्यादिवासरूपेण सदा सर्वकालं मार्गनिरतेन सम्यग्दर्शनादिमोक्षमार्गस्थितेन साधुना श्रावकेण च । अन्यथा तदालापसंभाषादिना संसर्गकरणे कुष्ठज्वररोगोपहतसंसर्ग इव तत्तद्दोषसञ्चारादिहलोकपरलोकयोरनर्थावाप्तिरेव । अत एवोक्तम् -
सीहगुहं वग्घगुहं उदयं च पलित्तयं च सो पविसे । असिवं ओमोयरियं दुस्सीलजणप्पिओ जो उ ।। इति ।।८४० ।। चक्रे० : अत्रैव विशेषमाहुः - देव० : अत्रैव विशेषमाह -
अग्गीयादाइन्ने खित्ते अन्नत्थ ठिईअभावंमि ।
भावाणुवघायणवत्तणाए तेसिं तु वसियव्वं ।।२०० ।। १. ठिइ A.P.K २. वत्तणाइ P.K