________________
२५६
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
तेसिपि य सामन्नं भ भट्ठव्वया य ते हुति ।
जे समणा कज्जाइ वित्तारक्खाए कुव्वंति ।। [संबोधप्र. ४६३, ४६४ ] इति, तर्हि किं कर्त्तव्यमित्याह-अनुकूलैः प्रियैरितरैश्च निष्ठुरैर्वचोभिरिति गम्यम्, अनुशिष्टिः शिक्षा भवति दातव्येति गाथार्थः । ।१९७ ।। चक्रे० : ननु सम्प्रत्याज्ञातिक्रमकारिण एव भूयांसस्ततः किं कार्यमित्याहुः - देव० : ननु सम्प्रत्याज्ञातिक्रमकारिण एव महाजनपरिगृहीताश्च बहवस्तावदुपलभ्यन्ते, ततः कथमिदं कर्तुं शक्यमित्याशयवतामुपदिशति -
___ एवं पाएण जणा कालणुभावा इहं तु सब्वे वि ।
नो सुंदरत्ति तम्हा आणाजुत्तेसु पडिबंधो।।१९८।। चक्रे० : एवं परिदृश्यमानप्रकारेण प्रायेण जनाः साधुश्रावकादयः सर्वेऽपि, कालो दुःषमा तदनुभावादिह भरतक्षेत्रे नो सुन्दरा नो भव्या नाऽऽज्ञावर्तिनः, इतिर्वाक्यसमाप्तौ, तस्मादाज्ञायुक्तेषु स्वल्पेष्वपि प्रतिबन्धो बहुमानः कार्य इत्यर्थः । ।१९८ ।।
देव० : एवमिति परिदृश्यमानप्रकारेण प्रायेण बाहुल्येन जनाः साधुश्रावकादयः सर्वेऽपि कालानुभावाद् दुःषमाप्रभावादिह भरतक्षेत्रे, तुः पादपूरणे, नो सुन्दरा भव्याः सम्भवन्तीति योगः, यतः सम्प्रति द्रव्यतः प्रतिपन्नजिनशासना अपि बाहुल्येनाभव्या दूरभव्याश्चोक्ताः । इतिशब्दो वाक्यपरिसमाप्तौ, तस्मादाज्ञायुक्तेषु प्रतिबन्धः, स्वल्पा अपि ये केचनाज्ञायां वर्त्तन्ते, तेष्वेव गुरुबुद्धया बहुमानो विधेय इति भाव इति गाथार्थः ।।१९८ ।।
* उपदेशपदे-८३९ * एवं पाएण जणा कालणुभावा इहंपि सब्वे वि ।
णो सुंदरत्ति तम्हा आणासुद्धेसु पडिबंधो ।। एवमुक्तोदाहरणवत् प्रायेण बाहुल्येन जना लोकाः कालानुभावाद् वर्तमानकालसामर्थ्यादिहापि जैने मते सर्वेऽपि साधवः श्रावकाश्च नो नैव सुन्दराः शास्त्रोक्ताचारसारा वर्तन्ते, किन्त्वनाभोगादिदोषाच्छास्त्रप्रतिकूलप्रवृत्तयः । इति पूर्ववत् । तस्मात् कारणादाज्ञाशुद्धेषु सम्यगधीतजिनागमाचारवशात् शुद्धिमागतेषु श्रावकेषु प्रतिबन्धो बहुमानः कार्यः ।।८३९ ।।
१. कालाणुभावा PK २. सुंदरुत्ति T,CO अत्र मूलगाथायां वर्णितः 'नो सुन्दर' शब्दस्य 'अभव्य-दूरभव्य' इति टीकार्थो जिनागमादिशास्त्रानुसारी न दृश्यते, उपदेशपदवर्णितोऽर्थो वास्तविक इति ज्ञायते । - सम्पा.