________________
४-साधुतत्त्वम् गा-१९७
२५५
* अभिधानराजेन्द्रकोषे 'आगम'शब्दे-८२ * धर्मार्थिना धर्ममार्गे प्रवर्त्तमानेनाऽऽगमावलम्बनेनैव प्रवर्तितव्यं तस्यैवैकस्यैहिकामुष्मिकफलसिद्धिहेतुतयोपादेयत्वादन्यस्य पुरुषमात्रस्यावलम्बने तदुच्छेदः स्यादित्येतद्दर्शयन्निदमाह -
किं वा देइ वराओ मणुओ सुट्ठ वि धणी वि भत्तो वि ।
आणाअइक्कम पुण तयं पि अणंतदुहहेऊ ।। किं वा न किञ्चिद्ददाति प्रयच्छति वराकोऽत्यन्तशक्तिरहितो मनुजो नरः सुष्ठ्वप्यतिशयेन धन्यपि धान्यादिसंपदुपेतो भक्तोऽपि भक्तपानवस्रपात्रादिदानसमर्थ एव स्यात्, न पुनः सुगतेः, आज्ञातिक्रमणं भगवदाज्ञोल्लङ्घनं पुनः परापेक्षयापि तनुकमपि स्वल्पमप्यास्तां तावद् बबित्यपिशब्दार्थः, अनन्तदुःखहेतुरनन्तसंसारनिबन्धनमित्यर्थः, यदपेक्षया सर्वविदाज्ञोल्लङ्घनं क्रियते स ह्याहारादिदानमात्र एव समर्थः, न पुनः कुगतिरक्षाक्षमः, अतः किं तदपेक्षया भगवदाज्ञोल्लङ्घनेनानन्तसंसारनिवर्त्तनेनेति गाथार्थः ।।८२।।
तम्हा सइ सामत्थे आणाभटुंमि नो खलु उवेहा ।
अणुकूलगेयरेहिं अणुसट्ठी होइ दायव्वा ।।१९७ ।। चक्रे० : यस्मादाऽऽज्ञातिक्रमणमनन्तदुःखहेतुस्तस्मात् सति सामर्थ्य आज्ञातिक्रमव्यावर्त्तनक्षमत्वे, आज्ञाभ्रष्ट आज्ञातिक्रमकारिणि गृहस्थे, साधौ वाऽऽस्तामनुवर्तनम्, खलुरप्यर्थे, नो नैवोपेक्षाऽप्युदासीनताऽपि कार्येत्यर्थः, यतः -
आणाभंगं दटुं 'मज्जत्था मुत्ति ठंति जे तुसिणा ।।
अविहिअणुमोयणाए तेसिपि य होइ वयलोवो ।। [संबोधप्र. ४६३] किन्त्वनुकूलैः प्रियेरितरैश्च निष्ठुरैर्वचोभिरनुशास्तिः शिक्षा भवति दातव्या।।१९७ ।।
देव० : यस्मादाज्ञातिक्रमणमनन्तदुःखहेतुस्तस्मात् सति सामर्थ्य तव्यावर्त्तनं प्रति विद्यमानायां शक्तावाज्ञाभ्रष्ट आज्ञातिक्रमकारिणि नो खलुरप्यर्थे, नैवोपेक्षाप्यौदासीन्यमपि, आस्तां तदनुवर्त्तनं कार्येति शेषः । अयमभिप्रायः – य एवाज्ञाभङ्गं विधास्यति स एवानन्तदुःखभाग्भविष्यति, किमस्माकमिति बुद्ध्या नोदासितव्यम् यतः -
आणाभंग दटुंमज्झत्था मु' त्ति ठंति जे तुसिणा । अविहिअणुमोयणाए तेसिपि य होइ वयलोवो ।।
१. सय P.K