________________
२५४
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
जं जीअं सोहिकरं संवेगपरायणेण दंतेणं । इक्केण वि आइन्नं तेण उ जीएण ववहारो ।।
'जं जीअं 'ति । यज्जीतं पार्श्वस्थप्रमत्तसंयताचीर्णम्-अत एवाशोधिकरम्, तद् यद्यपि महाजनाचीर्णं तथाऽपि न तेन जीतेन व्यवहारः कर्त्तव्यस्तस्याशोधिकरत्वात् ।।५२।।
'जं जीअं 'ति । यत्पुनर्जीतं संवेगपरायणेन दान्तेनैकेनाप्याचीर्णं तच्छोधिकरं तेन व्यवहारः कर्त्तव्यो भवति । न तु बहुजनापरिगृहीतत्वेनाऽस्याविश्वासः कर्त्तव्यः, बहुजनपरिगृहीतत्वस्य लोकधर्मेऽपि सत्त्वेन तस्य विश्वासानङ्गत्वात् सदाचारपरिगृहीतत्वस्यैव तत्र तत्रत्वादिति भावः । । ५३ ।।
चक्रे० : अत्रैव विशेषमाहुः -
देव० :
अत्रैवमाह
-
-
आणाइ अवट्टंतं जो उववूहिज्ज जिणवरिंदाणं ।
तित्थयरस्स सुयस्स य संघस्स य पचणीओ सो । । १९५ ।।
चक्रे० : पाठसिद्धा । । १९५ ।।
देव० : जिनवरेन्द्राणामाज्ञायामवर्त्तमानं य उपबृंहयेद् द्वादशावर्त्तवन्दनादिना स्तूयाद्वस्त्रपात्रादिना च सन्मानयेत् तीर्थकरस्य श्रुतस्य सङ्घस्य च स प्रत्यनीकस्तत्प्रतिकूलवर्त्त्यनुमोदनादिति गाथार्थः ।।१९५।।
चक्रे० : अथ वस्त्रपात्राद्याशंसयोन्मार्गगामिनं गृहस्थादिकमनुवर्त्तयन्ते ये तान् प्रत्याहुः देव० : अथ वस्त्रपात्राद्याशंसयोन्मार्गगामिनं महर्द्धिकगृहस्थादिकमनुवर्त्तयन्ति ये तान्
प्रत्याह
किं वा देइ वराओ मणुओ सुट्टु वि धणी वि भत्तो वि । आणाइक्कमणं पुण तणुयंपि अणंतदुहहेऊ । । १९६ । ।
चक्रे० : स्पष्टा । ।१९६।।
देव० : किं वा किमिव ददाति वराको मनुजः सुष्ठ्वप्यतिशयेन धन्यपि भक्तोऽपि किञ्चिद्वस्त्रपात्रादि, दददप्याज्ञातिक्रमणजनितापायापेक्षया न किञ्चिदित्यर्थः । आज्ञातिक्रमणं पुनस्तन्वपि स्वल्पमप्यक्षरपदाद्यरोचनमप्यनन्तदुःखहेतुरनन्तभवभ्रमणकारणत्वादिति गाथार्थः।।१९६।। १. अत्रैवाभ्युच्चयमाह T,B,C २. आणाए Z