________________
४-साधुतत्त्वम् गा-१९४
२५३
देव० : यज्जीतं सामाचारी विशेषोऽशोधिकरं न कर्ममलापनयनसहं पार्श्वस्थप्रमत्तसंयतादिभिः, पार्श्वस्थाः पूर्वोक्ताः प्रमत्ताः प्रमादिनस्तत्प्रकारैर्बहुभिरप्यास्तामेकेन के चदाचीर्णं प्रवर्तितम्, न तेन जीतेन व्यवहारस्तीर्थप्रवृत्तिः, शतमप्यन्धानां न पश्यतीति न्यायाज्जीतलक्षणस्यैवाऽयोगात्, शब्दप्रवृत्तिस्तु गौणवृत्त्यापि भवतीति गाथार्थः । ।१९३ ।।
चक्रे० : किन्तु - देव० : किन्तु -
जं जीयं सोहिकरं संवेगपरायणेण दंतेण ।
एक्केण वि आइनं तेण उ जीएण ववहारो।।१९४।। चक्रे० : स्पष्टा ।।१९४ ।।
देव० : यज्जीतं शोधिकरं संवेगपरायणेनोपलक्षणत्वाद् गीतार्थेन च दान्तेनेन्द्रियनोइन्द्रियदमादेकेनाप्यास्तां बहुभिराचीर्णम्, तेन, तुरेवकारार्थः पुनः सम्भाव्यते, जीतेन व्यवहार एव प्रदीपकल्पत्वात्, उक्तं च -
एक्कोवि नायवाई अवलंबंतो विसुद्धववहारं ।
सो होइ भावसंघो जिणाण आणं अलंघतो ।। [संबोधप्र. ७९७] आचीर्णलक्षणं चेदम् -
धिइसंघयणाईणं मेराहाणिं च जाणिउं थेरा । सेह अगीयत्थाणं ठवणा आइण्णकप्पस्स ।। [पञ्चवस्तु-४७५] अवलंबिऊण कज्जं जं किंचि आयरंति गीयत्था ।
थेवावराहबहुगुण सव्वेसिं तं पमाणं तु ।। [पञ्चवस्तु-२७९] तस्मात्पार्श्वस्थाद्याचीर्णं नाचरेन्न शंसेदिति गाथार्थः । ।१९४ ।।
* गुरुतत्त्वविनिश्चये-२/५२, ५३ * शोधिकराशोधिकरजीतप्रतिपादनार्थमाह -
जं जीअमसोहिकरं पासत्थपमत्तसंजयाईणं । जइ वि महाणाइनं ण तेण जीएण ववहारो ।।
१. इककेण P.K