________________
२५२
दर्शनशद्धिप्रकरणम् - सम्यक्त्वप्रकरणम
पल्लीपतेः कथयित्वा गुप्तौ प्रक्षेपितवान्, ततस्तदन्वेषणार्थं गुरवस्तत्र समायाताः, तं च वाचकं भ्रष्टव्रतमपि वन्दित्वा शिक्षका एतेऽज्ञा इत्युक्त्वा च तानगीतार्थशिष्यान् मोचितवन्तः, तथा च भाष्यम्पेसविया पच्चन्तं गीयाऽसइ खेत्तपेहग अगीया । पेहियखेत्ता पुच्छंति वायगं कत्थऽरण्णेत्ति ।।३-८५३।।
ओसकते दटुं संकच्छेई उ वायगो कुविओ । पल्लिवइकहण रुंभण गुरुआगम वंदणं सेहा ।।८५४ ।। नन्वेवं पार्श्वस्थादीन् वन्दमानस्य तद्दोषानुज्ञातः संयमव्ययादयो दोषाः प्रसजन्ति, सत्यम्, किन्तु संयमव्ययात् तदायो यथा गरीयान् भवति तथा यतितव्यमेव, तथा च भाष्यम्कुणइ वयं धणहेउं धणस्स वणिओ उ आगमं नाउं । इय संजमस्सवि वओ तस्सेवठ्ठा न दोसाय ।।८४६।। गच्छस्स रक्खणट्ठा अणागयं आउवायकुसलेणं । एवं गणाहिवइणा सुहसीलगवेसणा कज्जा ।।८४७।। तद्यथा 'वायाए नमोक्कारो' इत्यादि, किं बहुना ? ___ वायाए कम्मुणा वा तह चेट्ठइ जह न होइ से मंगें । पस्सइ जओ अवायं तं भावं दूरओ वज्जे ।।८६४ ।। इति तावद् गुणवर्जितविषयं वाग्नमस्कारादिकं कृत्यमुक्तम्, यत्र तु गुणः स्वल्पोऽप्यस्ति तत्र किं कर्त्तव्यम् ? अत्रापि भाष्यम् -
दंसणनाणचरित्तं तवविणयं जत्थ जत्तियं जाणे । जिणपन्नत्तं भत्तीए पूयए तं तहिं भावं ।।८६९।। (जीत १३३२) । किमिह बहुविस्तरेण प्रवचनसारमेवोच्यते, तच्च 'पडिसेहो य अणुन्ना' इत्यादिना सूत्रेणात्रैव वक्ष्यते, तदलमतिप्रसङ्गेन, तदर्थिना तु निशीथ (उद्दे० ५) कल्पाव (उद्दे० ३) न्वेषणीयौ, तस्माद्गम्भीरजिनप्रवचनमध्यस्थैः पौर्वापर्येण परिभावनीयं न तु क्वचिद्वचनमात्राकर्णनेनापि सम्मोहः कार्य इति गाथार्थः ।।२०६।।
चक्रे० : यत: - देव० : यत: -
जं जीयमसोहिकरं पासत्थपमत्तसंजयाईहिं । . बहुएहिं वि आइनं न तेण जीएण ववहारो।।१९३।। चक्रे० : यज्जीतं समाचारविशेषोऽशोधिकरं कर्ममलाऽपनयनाक्षमम्, पार्श्वस्थप्रमत्तसंयतादिभिः, पार्श्वस्थाः पूर्वोक्ताः प्रमत्ताः प्रमादिनस्तत्प्रकारैर्बहुभिरप्याचीर्णं प्रवर्तितम्, न तेन जीतेन व्यवहारस्तनाचरणीयमित्यर्थः, यतः शतमप्यन्धानां न पश्यति ।।१९३ ।।
१. बहुएहि A.T.C,