________________
४-साधुतत्त्वम् गा-१९२
२५१
ऋतुबद्धकाले मासकल्पं वर्षासु पुनः कार्तिकचातुर्मासिकमतिक्रम्य पुष्टालम्बनमन्तरेणापि सुखप्रतिलिप्सुतया य एकत्रापि क्षेत्रे तिष्ठति स नित्यवासी ।
छन्दोऽभिप्रायः, स चेह प्रस्तावाद्यथाछन्दस्यैव सम्बन्धी गृह्यते, ततश्च तीर्थकरवचनबहिर्भूतं स्वाभिप्रायस्यैवानुरूपं प्ररूपयति करोति वा यः स यथाछन्द उत्सूत्रमाचरन् प्ररूपयंश्च, तथा परतप्तिप्रवृत्तः स्वल्पेऽपराधे पुनः पुनर्झषणशीलो मिथ्यालम्बनं च स्वबुद्ध्या किञ्चिद्विकल्प्य सुखाभिलाषी विकृतिप्रतिबद्ध ऋद्धिरससातगौरवैर्गवितश्च यथाछन्द इत्यर्थः ।
एते षडप्यनन्तरोक्तसुखशीलजनस्वरूपाः, एतैश्च षड्भिरपि यज्जिनाज्ञामतिक्रम्य समाचीर्णं तत् तानेव दृष्टान्तीकृत्य न स्वयमाचरेत्, नापि शंसेत् शोभनमिदमिति न प्रशंसेदित्यर्थः । अत्राह-नन्वावश्यकादिषु पार्श्वस्थादीनां कृतिकर्मादिकमपि निवारितम्, एतेषु च पार्श्वस्थादिषु मध्येऽग्रपिण्डभोजित्वादिकया स्वल्पयाऽप्युत्तरगुणसेवया केचित् पठ्यन्ते, केचित्तु पञ्चाश्रवप्रवृत्त्यादिकया बहुदोषया मूलगुणसेवया, ततश्चातिगहनमिदम्, न कश्चित्तथाविधो विषयविभागो लक्ष्यते, सत्यम्, तर्हि किञ्चिद्विशेषपरिज्ञानार्थं कल्पसम्बन्धि भाष्यं चूर्णितश्च किञ्चिल्लिख्यते -
संकिण्णऽवराहपओ अणाणुतावी य होइ अवरुद्धो । उत्तरगुणपडिसेवी आलंबणवज्जिओ वज्जो ।। (बृ. ३ उ० ८४०) (जीत० १३२३) । अत्र चूर्णिः-संकिण्णो नाम बहूहिं उत्तरगुणावराहपएहिं, ते य काउं नाणुतप्पइ-दुट्ठ कयं, निस्संको निद्दओ पवत्तइ, आलंबणा नाणाई तेहिं वज्जिओ यः स कियकम्मे वर्जनीयः, अर्थादापन्नम्-आलंबणसहिओ उत्तरगुणे पडिसेवमाणोऽवि पुज्जो इति शिष्यवचनं, आयरिओ भणइ-न केवलं उत्तरगुणपडिसेवी एव आलंबणसहिओ पुज्जो, तथा च भाष्यम् -
हेट्ठाठाणठिओऽवी पावयणिगणट्ठियाइ अहरे ऊ । कडजोगी उ निसेवइ आइनियंठो व्व सो पुज्जो ।। ८४१ (जीत १३२३) । अत्र चूर्णि:- हिट्ठिल्लेहिं संजमठाणेहिं ठिओऽवि, मूलगुणप्रतिषेव्यपीति भावः, कडजोगी नामगीयत्थो, पावयणी-आयरिओ गणो-गच्छो एएसिं अट्ठयाए अधरे-आत्यन्तिके जं निसेवेइ तेण संजमसेढीए चेव वट्टइ, जह आइनियंठो-पुलागो तस्स लद्धी चक्कवट्टिखंधावारंपि थंभेउं विणासेउं च कुलाइकज्जेसु आलोइयपडिकंतो सुद्धो महानिज्जरो य, यत आह भाष्यकार: -
कुणमाणोऽवि य कडणं कयकरणो नेव दोसमज्जेइ । अप्पेण बहुं इच्छइ विसुद्धआलंबणो समणो ।। ८४२ (पंच० २४२५) कडणंति कटमर्दनमपि कुर्वाणः कृतकरण: पुलाको न दोषमभ्येति, विशुद्धालम्बनोऽल्पेन बह्विच्छति, अपरं चेह भ्रष्टसंयमगुणोऽप्यायोपायकुशलेन कार्यार्थिना वन्दनीयः, अन्यथा दोषप्रसङ्गात्, तथाहि-केनचिदाचार्येण गीतार्थाभावेऽगीतार्था अपि क्षुल्लकाः प्रत्यन्तपल्ल्यां क्षेत्रप्रत्युपेक्षार्थं प्रेषिताः, तत्र भ्रष्टव्रत एको वाचको राजकुले यत्कृतप्रमाणः परिवसति, ते च प्रत्युपेक्षितक्षेत्राः साधवस्तं पृच्छन्ति-क्वासौ तिष्ठतीति, लोकेन कथितम्-यथाऽरण्ये तिष्ठति, ततस्तेऽपि तत्र गतास्तमजारक्षणप्रवृत्तं पुराणं दृष्ट्वाऽद्रष्टव्योऽयमिति विमृश्यागीतार्थत्वेन शनैः शनैरपसर्पन्ति, तांश्च तथा दृष्ट्वा कुपितो वाचकः