________________
२५०
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
*
* उपदेशमालापुष्पमालायाम्-२०६ * तमेव सुखशीलजनं दर्शयति -
पासत्थो ओसनो कुसील संसत्तनी अहाछंदो ।
एएहिं समाइन्नं न आयरेज्जा न संसिज्जा ।। तत्र सम्यग्ज्ञानदर्शनचारित्रेभ्यः पार्श्वे पृथक् तिष्ठतीति पार्श्वस्थः, अमुं च सर्वथैवाचारित्रिणं केचिन्मन्यन्ते, तच्च न सङ्गतम्, यतो निशीथचूर्णिरिहैवं दृश्यते "सत्थो अच्छइ, सुत्तपोरसिं अत्थपोरसिं वा न करेइ, दंसणाइयारेसु वट्टइ, चारित्ते न वट्टइ, अइयारे य न वज्जेइ, एवं सत्थो अच्छइ पासत्थो"त्ति, अनेन च सर्वथैवास्य चारित्राभाव एवेति नावसीयते, किन्तु सर्वतो देशतश्चायं सूत्रे पठ्यते, तत्र ज्ञानादिभ्यः पृथग्भूतः सर्वतः, अग्रपिण्डनित्यपिण्डभोजित्वादिदोषदुष्टस्तु देशतः, इदं च द्वैविध्याभिधानमपार्थकं स्यात्, चारित्राभावस्योभयत्रापि समानत्वात्, तस्माद् भजनया सातिचारचारित्रसत्ताऽप्यस्याप्यवबुध्यते ।
अवसीदति प्रमाद्यति साधुसामाचार्यामित्यवसनः सोऽपि द्विविधः सर्वतो देशतश्च, अत्रावबद्धपीठफलक: स्थापनाभोजी च सर्वावसन्नः, तत्रैककाष्ठानिष्पन्नसंस्तारकालाभे बहुभिरपि वंशादिकाष्ठखण्डैर्दवरकादिबन्धान् दत्त्वा वर्षासु संस्तारकः क्रियते, स च पक्षसन्ध्यादिषु बन्धापगमं कृत्वा प्रत्युपेक्षणीय इति जिनाज्ञा, यस्त्वेवं न प्रत्युपेक्षते सोऽवबद्धपीठफलकोऽभिधीयते, अथवा पुनः पुनः शयनादिनिमित्तं नित्यमास्तीर्णसंस्तारकः, एकान्तानास्तीर्णसंस्तारक एव वा यस्त्वास्ते स एवमभिधीयते, यस्तु प्रतिक्रमणस्वाध्यायप्रत्युपेक्षणादिकां साधुसामाचारी प्रत्येकं न करोति, हीनाधिक्यादिदोषदुष्टां वा करोति, स्खलितेषु मिथ्यादुष्कृतं न ददाति प्रेरितोऽपि गुरोः सन्मुखीभूय ब्रवीतीत्यादिदोषदुष्टः स देशावसन्नः ।
कुत्सितं ज्ञानदर्शनचारित्रलक्षणं शीलं यस्य स कुशीलः, अयं च ज्ञानदर्शनचारित्रकुशीलताभेदात् त्रिविधः, तत्र कालविनयादिकमष्टविधं ज्ञानाचारं यो विराधयति स ज्ञानकुशीलः, ज्योतिषविद्यामन्त्रयोगचूर्णनिमित्तादिकं प्रयुञ्जानो जातिकुलशिल्पतपोगणसूत्रादि वाऽऽहारादिगृद्ध्याऽऽजीवन् विभूषादिकं च चरणमालिन्यजनकं कुर्वाणश्चरणकुशीलः ।
गुणैर्दोषैश्च संसज्यते मिश्रीभवतीति संसक्तः, इदमुक्तं भवति-यथा गवादीनां खानदकलन्दके उच्छिष्टमनुच्छिष्टं वा भक्तखलकार्पासादिकं सर्वं प्राप्यत एवं मूलोत्तरगुणविषया बहवो गुणा दोषाश्च यत्र लभ्यन्ते, यथा वैलको हरिद्रया रञ्जितः पीतो भवति, पुनः प्रक्षाल्य गुलिकयाऽनुलिप्तो नीलो भवति, हिंगुलिकादिना तु रक्तादिवर्णो भवति, तथैव नटवद् यो बहुरूपः सम्पद्यते, संविग्नेषु मिलितः संविग्नमात्मानं दर्शयति पार्श्वस्थादिषु तु तद्रूपतां भजत इत्यर्थः, स एवंभूतः संसक्तः, अयमपि द्विविधः, संक्लिष्टोऽसंक्लिष्टश्च, तत्र पञ्चाश्रवप्रवृत्तो गौरवत्रयप्रतिबद्धः स्त्रीप्रतिषेवी गृहकार्यचिन्तनपरश्च संक्लिष्टः, संविग्नपार्श्वस्थादिबहुरूपस्त्वसंक्लिष्टः।