________________
२४४
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
संक्लिष्टासंक्लिष्टभेदात् संसक्तोऽपि द्वेधा, तत्र -
पंचासवप्पवत्तो जो खलु तिहिं गारवेहिं पडिबद्धो ।
इत्थिगिहिसंकिलिट्ठो संसत्तो संकिलिट्ठो उ ।। [प्रव.सारो० ११९] स्त्रीसंक्लिष्टः स्त्रीप्रतिषेवी, गृहिसंक्लिष्टस्तद्धनधान्यादितप्तिकारी । असंक्लिष्टस्तु
पासत्थाईएसुं संविग्गेसुं च जत्थ संमिलइ ।
तहि तारिसओ होई पियधम्मो अहव इयरो उ ।। धार्मिकमध्ये धार्मिकमिवात्मानं दर्शयति, इतरेषु त्वितरमिति ।
उस्सुत्तमायरंतो उस्सुत्तं चेव पनवेमाणो ।
एसो उ अहाछंदो इच्छाछंदोत्ति एगट्ठा ।। [प्रव.सारो० १२०, १२१] इह चोपलक्षणमिदम्, अन्येऽपि नित्यवासिकथिकप्राश्निकमामकसंप्रसारिणः सूत्रेऽवन्द्यत्वेनाभिहिताः, तल्लक्षणमिदम् -
एगखेत्तंमि सया तहाविहालंवणं विणा जो उ । विहरइ सायागरुओ नियावासंतिगं बेंति ।। आहाराईणट्ठा जसहेउं अहव पूयणनिमित्तं । तक्कामो जो धम्मं कहेइ सो काहिओ होइ ।। लोइयववहारेसु लोइयसत्थाइएसु कज्जेसु । पासणियत्तं (विचारणं) कुणइ पासणिओ सो उ नायव्वो ।। खेत्ताईसु ममत्तं कुणमाणो मामगो मुणेयव्वो । कयविक्कयाय गिहिणामंतंतो संपसारीओ ।। [ ] इति गाथार्थः ।।१८९।।
* आवश्यकनियुक्तौ-११०७/१, संबोधसित्तर्याम्-९ * साम्प्रतं यदुक्तं ‘पञ्चानां कृतिकर्म न कर्तव्यम्' अथ क एते पञ्च ?, तान् स्वरूपतो निदर्शयन्नाह -
पासत्थो ओसन्नो होइ कुसीलो तहेव संसत्तो ।
अहछंदोऽवि य एए अवंदणिज्जा जिणमयंमि ।। ___किलेयमन्यकर्तृकी गाथा तथाऽपि सोपयोगा चेति व्याख्यायते । तत्र पार्श्वस्थो दर्शनादीनां पार्श्व तिष्ठतीति पार्श्वस्थः, अथवा मिथ्यात्वादयो बन्धहेतवः पाशाः पाशेषु तिष्ठतीति पाशस्थः,
१. नीयावासितिगं बेंति A नीयावासिंतगं बिंति T,B,C