________________
४-साधुतत्त्वम् गा-१८९
२४३
अवन्दनीयाश्च जिनागमेऽर्हत्प्रवचन इति । पार्श्वस्थादिस्वरूपं च सूत्रगाथाभिरुच्यते
सो पासत्थो दुविहो सव्वे देसे य होइ नायव्वो । सव्वंमि नाणदंसणचरणाणं जो उ पासंमि ।। देसंमि उ पासत्थो सेज्जायरभिहडरायपिंडं च ।
नीयं च अग्गपिंडं भुंजइ निक्कारणे चेव ।। [प्रव.सारो. १०४, १०५] पिण्डशब्दो नित्यशब्दश्च सर्वपदेषु सम्बध्यत इति । तथा –
कुलनिस्साए विहरइ ठवणाकुलाणि य अकारणे विसइ । संखडिपलोयणाए (विवाहाद्यवलोकनाय) गच्छइ तह संथवं कुणइ ।।
[संबोधप्र० ३५०] मात्रादिसम्बन्धघटनलक्षणम् ।
ओसन्नोवि य दुविहो सव्वे देसे य तत्थ सव्वंमि ।
उउबद्धपीढफलगो ठवियगभोई य नायव्वो ।। [संबोधप्र० ३५१] ऋतुबद्धे पीठफलकासेवक एकान्तेनास्तीर्णसंस्तारक एव वा, शेषं सुगमम् । देशावसन्नस्तु
आवस्सगसज्झाए पडिलेहणज्झाणभिक्ख भत्तढे ।
आगमणे निग्गमणे ठाणे य निसीयणतुयट्टे ।। [प्रव.सारो० १०७] एतेषु विषये देशावसन्नो भवतीत्यर्थः, कदा इत्याह -
आवस्सगाइयाइं न करेइ अहवा वि हीणमहियाइं । (यदैतानि सर्वथा न करोति हीनाधिकानि वा करोतीत्यर्थः अन्यच्च) गुरुवयणबला य तहा । (क्वचिद्वितथाचरणे गुरुणा प्रेरितः सन् संमुखीभूयाऽऽलजालानि वक्ति न पुनः सम्यक्प्रतिपद्यते) भणिओ एसो उ ओसन्नो ।। [संबोधप्र. ३५२]
तिविहो होइ कुसीलो नाणे तह दंसणे चरित्ते य । तत्थ य नाणकुसीलो अकालसज्झायमाईहिं ।। सम्मत्तकुसीलो पुण संकाईसेवगो मुणेयव्वो ।
कोउगभूईकम्माइ सेवगो होइ चरणंमि ।। [ ] सौभाग्यादिकृते योषिदादीनां त्रिकचतुष्कादिषु स्नानादिकरणं कौतुकम्, ज्वराद्यपगमार्थमभिमन्त्रितभस्मनो दानं भूतिकर्म, आदिशब्दानिमित्तादिकमवसेयमिति ।