________________
४- साधुतत्त्वम् गा - १८९
जनवन्दनीयस्तदा भविष्यसीत्यर्थः । 'छज्जइ'त्ति शोभते नामापि तव तत इतीहापि योगः, किं तन्नाम क्षमाश्रमण इति, क्षमाप्रधानः श्रमणः क्षमाश्रमण इत्यन्वयघटनात्, व्यतिरेकमाह- अथ न क्षमसे तदा न नमस्यसे, नामापि क्षमाश्रमण इति निरर्थकं वहसि, अन्वयाघटनाद् वृद्धपुरुषेऽजरामरादिव्यपदेशवदिति गाथार्थः । । १८८ । ।
चक्रे० : अथ निरर्थकनामवाहिन एव भेदेनाख्याय तेषु कृत्यमाहुः
देव० : अथ निरर्थकनामवाहिन एव भेदेनाख्याय तेषु कृत्यविधिमाह पासत्थओसन्नकुसीलरूवा संसत्तऽहाछंदसरूवधारी ।
आलावमाईहिं विवज्जणिज्जा अवंदणिज्जा य जिणागमंमि । । १८९ ।। चक्रे० : पार्श्वे ज्ञानादीनां तिष्ठतीति पार्श्वस्थः, अवसन्न इवाऽवसन्नः सामाचार्याः सेवने पराभग्नः, कुत्सितं शीलमस्येति कुशीलस्तत एषां रूपं स्वभावो येषां ते तथा । संसक्तः सदसदाचारयोः सम्पृक्तः, यथाच्छन्दः स्वरुचिप्रधान उत्सूत्रप्ररूपक इत्यर्थः, तयोः स्वरूपं धारयन्ति ये ते तथा । आलापादिभिरादिशब्दात् संवासादिभिर्विवर्जनीयास्तथा च आलावो संवासो वीसंभो संथवो पसंगो य ।
हीणायारेहिं समं सव्वजिणिदेहिं पडिकुट्ठो ।। [ उपदेशमाला-२२२]
अवन्दनीयाश्च जिनागमे, एतत्स्वरूपसूचिकाश्चागमगाथाः
सो पासो दुविहो सव्वे देसे य होइ नायव्वो । सव्वंमि नाणदंसणचरणाणं जो उ पासंमि ।।
देसंमि उपासत्थो सेज्जायरऽभिहडरायपिंडं च ।
नीयं च अग्गपिंडं भुंजइ निक्कारणे चेव ।। [ संबोधप्र. ३४८, ३४९] कुलनिस्साए विहरइ ठवणकुलाणि य अकारणे विसइ ।
संखडिपलोयणाए गच्छइ तह संथवं कुणइ ।। [ संबोधप्र. ३५० ] मात्रादिसम्बन्धघटनलक्षणम् -
ओसन्नोवि यदुविहो सव्वे देसे य तत्थ सव्वंमि । उउबद्धपीढफलगो ठवियगभोई य नायव्वो ।। [ संबोधप्र. ३५१]
२४१
1