________________
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
साधुर्धनाढ्यादिभिर्वन्द्यमानो हर्षं गोपालादिभिस्तु निन्द्यमानो विषादं न कुर्यात्, कुत इत्याह-न हि यस्माल्लोकैर्नतानामेव साधूनां सुगतिं निन्दितानां तु कुगतिं ब्रुवन्ति जिनाः, किन्त्वात्मगतगुणदोषैरेव तत्प्राप्तिस्तैरुक्ता, यदि पुनरेवमुक्तं स्यात्तदाऽभ्यर्थ्यापि परैर्वन्दनं कार्येत हठाच्च निन्दां कुर्वन्निवार्येत, न चैवं तस्मान्न तथा कार्यमिति गाथार्थः ।। २०८ ।।
चक्रे० : तथाविधस्य च साम्यभाजः साधोर्जीवत्वे तुल्येऽपि तपःप्रभृतयो गुणा वन्दनीया इति स्थापयन्तस्तन्नमस्कारमाहुः
देव० : भगवन् ! जीवत्वे तुल्येऽपि कथं चारित्रिणं नमस्करोषीति मुग्धशिष्येण प्रेरिते सूरिराह -
२४०
वंदामि तवं तह संजमं च खंतिं च बंभचेरं च । जीवाणं च अहिंसा जं च नियत्ता घरावासा ।।१८७।।
चक्रे० : वन्दे तपस्तथा संयमं चेन्द्रियमनोनिग्रहम्, क्षान्तिं च ब्रह्मचर्यं च जीवानां चाहिंसाम्, यच्च निवृत्ता विरता गृहावासात्, तच्च विरतत्वं साधुनां वन्द इत्यर्थः।।१८७।।
देव० : वन्दे तपस्तथा संयमं चेन्द्रियमनोनिग्रहं क्षान्तिं च ब्रह्मचर्यं च जीवानां चाहिंसां य निवृत्ता विरता गृहावासात्तच्च विरतत्वं वन्द इत्यर्थः । समदेहादित्वेन वन्द्यत्वे विशेषाभावाद् गुरुगता ज्ञानदर्शनचारित्रपर्याया एव वन्दनीया इत्यर्थः । चकाराः स्वगतानेकभेदसूचका इति गाथार्थः ।।१८७।।
चक्रे० : अथ यतिधर्मस्य क्षान्तिप्रधानत्वात् तामेवोत्कर्षयन्ति -
देव० : अथ धर्मस्य दया मूलम्, न चाक्षमावान् दयां समाधत्ते तस्माद्यः क्षान्तिपरः स साधयत्युत्तमं धर्ममिति वाचकवचनमाश्रित्य त्वया क्षमैवावलम्बनीयेत्युपदिशन्नाह
जइ खमसि तो नमिज्जसि छज्जइ नामपि तुह खमासमणो । अह न खमसि न नमिज्जसि नामंपि निरत्थयं वहसि । । १८८ ।। चक्रे० : उत्तानार्था । । १८८ ।।
देव : यदि क्षमसेऽनिमित्तं निन्द्यमानोऽपि क्रोधं न करिष्यसि ततो नम्यस इह लोकेऽपि
१. सर्वजनवन्द्यमानस्य गुरोर्हर्षो माभूदिति तर्जयन्निव भूयोऽप्याह T,B,C २ साधूनामितिगम्यते, तद्गता T. B. C ३. उपदेशरूपतया पुनः क्षमामुत्कर्षयन्नाह T,B,C