________________
४-साधुतत्त्वम् गा-१८०, १८१, १८२
२३७
देव० : अद्यापि सम्प्रत्यपि तीर्णेव तीर्णा पर्यन्तगमनान्महानदीव प्रतिज्ञा 'करेमि भंते सामाइयं' इत्याद्यभ्युपगमो यैस्ते तथा, गुरुश्चासौ भर इव भरश्च दुर्वहत्वसाधर्म्यात्संयमस्तस्योद्वहनं निर्वहणं तत्र प्रत्यलाः समर्थाः, क्वचिद् द्रव्याद्यापद्यप्यनासेवितापवादा इति तत्त्वम्, अखण्डितशीलप्राग्भारा बलात्कारामन्त्रणोपनिपातेष्वप्यक्षुभितचेतसोऽत एव महापुरुषा लोके दृश्यन्त इति गाथार्थः ।।१७९।। देव० : तथा -
अज्जवि तवसुसियंगा तणुयकसाया जिइंदिया धीरा ।
दीसंति जए जइणो वम्महहिययं वियारंता।।१८० ।। चक्रे० : स्पष्टैव ।।१८० ।। देव० : स्पष्टा, नवरं धीराः क्षुदादिपरीषहसहिष्णवः, तथा मन्मथस्य परिणामरूपत्वान्मन्मथहदयं विदारयन्त इति लोकरूढितोऽभिहितमिति ।।१८० ।। देव० : तथा -
अज्जवि दयसंपन्ना छज्जीवनिकायरक्खणुज्जुत्ता ।
दीसंति तवस्सिगणा विगहविरत्ता सुईजुत्ता।।१८१।। चक्रे० : एषाऽपि स्पष्टा, नवरं श्रुतिः स्वाध्यायस्तेन युक्ताः।।१८१ ।।
देव० : अद्यापि दयासम्पन्ना, अत एव षड्जीवनिकायरक्षणोद्युक्ता दृश्यन्ते तपस्विगणा विकथाविरक्ताः, श्रुतिः स्वाध्यायस्तेन युक्ता इति गाथार्थः । ।१८१।। देव० : पूर्वोक्तमेव सगृह्णन् किञ्चिद्विशेषमाह -
__ अज्जवि दयखंतिपइट्ठियाइं तवनियमसीलकलियाई ।
विरलाइं दूसमाए दीसंति सुसाहुरयणाई।।१८२।। चक्रे० : प्रतीतार्था ।।१८२।। देव० : भावितार्थेयम्, नवरं नियमा द्रव्याद्यभिग्रहा इति ।।१८२।।
१. वेदोदयस्य हृदयं लक्षणया रहस्यं विदारयन्त इति A२. वयसंपन्ना Z३. तवस्सियजणा T.C. विकहविरत्ता z ४. पयट्ठियाई P.K