________________
२३८
दर्शनशद्धिप्रकरणम . सम्यक्त्वप्रकरणम
चक्रे० : तथा च - देव० : ततश्च -
इइ जाणिऊण एयं मा दोसं दूसमाए दाऊण ।
धम्मुज्जमं पमुञ्चह अज्जवि धम्मो जए जयइ ।।१८३ ।। चक्रे० : निगदसिद्धा, नवरं एतदिति चारित्राऽस्तित्वम्।।१८३ ।।
देव० : इति दर्शितप्रकारेण ज्ञात्वैतद् दुःषमायामपि चारित्रास्तित्वं मा धर्मोद्यमं प्रमुञ्चतेति योगः, किं कृत्वा ? दत्त्वा दोषं चारित्रप्रतिकूलतालक्षणं दुःषमाया अवसर्पिणीपञ्चमारकस्य, यतोऽद्यापि धर्मश्चारित्रलक्षणो जगति जयत्यतिशायितया वर्त्तत इति गाथार्थः । ।१८३ ।। चक्रे० : एवमनेकधा चारित्राऽस्तित्वं प्रतिष्ठाय निगमनमाहुः - देव० : एवमनेकधा दुःषमायां चारित्रास्तित्वं प्रतिष्ठाय निगमनमाह -
ता तुलियनियबलाणं सत्तीए जहागमं जयंताणं ।
संपुन चिय किरिया दुप्पसहंताण साहूणं ।।१८४।। चक्रे० : सुगमा, नवरं सम्पूर्णव क्रिया न पूर्वयतिभ्यो न्यूना, स्वसामर्थ्यतुलनायाः समानत्वात् ।।१८४ ।।
देव० : तत्तस्मात्तुलितनिजबलानां सर्वात्मना व्यापारित स्वसामर्थ्यानाम्, संयमयोगेष्विति शेषः । तथा शक्त्या यथागमं यतमानानां यतनावतां क्वचिदशिवादिकारणेष्वकल्प्यप्रतिषेवायां प्राप्तायामिति गम्यम्, सम्पूर्णव न पुनः प्राक्तनयतिभ्यो न्यूना क्रिया संयमानुष्ठानम्, स्वसाम
र्थ्यतुलनां प्रत्युभयेषामपि समानत्वाद्, दुष्प्रसभान्तानां साधूनामिति, ततश्च साम्प्रतं यतयोऽपि कतिचित् सम्पूर्णचारित्रवन्त एव, संयमयोगेषु तुलितनिजबलत्वात्प्राक्तनयतिवदिति गाथार्थः ।।१८४ ।।
१. इय P.K,Z२. दूसमाइ P.K३. पमुंचह T,CZ ४. संपुणच्चिय T,C