________________
२३६
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
.
चक्रे० : सम्प्रति दुःषमाद्यनुभावमाश्रित्योपदेशमाहुः - देव० : सम्प्रति दुःषमाद्यनुभावमाश्रित्योपदेशमाह -
कालाइदोसओ जइवि कहवि दीसंति तारिसा न जई ।
सव्वत्थ तहवि नत्थि त्ति नेव कुज्जा अणासासं ।।१७७।। चक्रे० : स्पष्टा, नवरमनाश्वासमनास्थाम्।।१७७।।
देव० : कालो दुःषमा आदिर्येषां चारित्रप्रतिकूलद्रव्यक्षेत्रभावानां ते तथा, तेषां दोषतो यद्यपि तादृशाः समस्तसाधुगुणकलिता यतयो न दृश्यन्ते, तथापि सर्वत्र न सन्तीत्येवंरूपमनाश्वासमनास्थां न कुर्यादिति गाथार्थः ।।१७७।।
चक्रे० : यतः - देव० : यतः -
कुग्गहकलंकरहिया जहसत्ति जहागमं च जयमाणा ।
जेण विसुद्धचरित्त त्ति वुत्तमरिहंतसमयंमि ।।१७८।। चक्रे० : कुग्रहोऽसदभिनिवेशः, स एव कलङ्को दोषस्तेन रहिता यथाशक्ति यथागमं च यतमानाः, येन कारणेन विशुद्धचारित्रा इत्युक्तमर्हत्समये जिनमते।।१७८ ।।
देव० : कुग्रहोऽसदभिनिवेशः, स एव कलङ्को दोषस्तेन रहिता यथाशक्ति यथागमं च यतमानाः, येन कारणेन विशुद्धचारित्रिण इति विशेषेणोक्तमर्हत्समये जिनमत इति गाथार्थः । ।१७८।।
चक्रे० : तादृशाश्च दृश्यन्त एव, तथाहि - देव० : तादृशाश्च दृश्यन्त एव, तथाहि -
अज्जवि तिनपइन्ना गरुयभरुव्वहणपञ्चला लोए ।
दीसंति महापुरिसा अखंडियसीलपब्भारा।।१७९।। चक्रे० : सुगमा, नवरं 'तिनपइन्ना' तीर्णसामायिकादिप्रतिज्ञाः । 'गुरुभरुव्वहणपञ्चला' दुर्वहसंयमभारोद्वहनसमर्थाः ।।१७९।।।
१. अणासंसं P.K२. तिन्निपइन्ना T.C.P.K गुरु P.K