________________
४-साधुतत्त्वम् गा-१७६
२:
५
भो भद्रा गुरवोऽस्माकं कुर्वते कार्यमीदृशम् । वयं तु नो ततो यात गुरूणामन्तिकं लघु ।।८।। केलिनैव ततो गत्वा गुरुमूचुस्तथैव ते । सूरिणा भणितं तर्हि भस्मानयत सत्वरम् ।।९।। येनास्य लुञ्चनं कुर्मो वयस्यैस्तु ततो लघु । तदानीतं ततः सूरिः पञ्चमङ्गलपूर्वकम् ।।१०।। लुञ्चनं कर्तुमारेभे तद्वयस्यास्तु लज्जिताः । चिन्तितं चेभ्यपुत्रेण कथं यास्याम्यहं गृहे ।।११।। स्वयमाश्रितसाधुत्वः संलुञ्चितशिरोमुखः । ततो विसृज्य मित्राणि गुरुमेवमुवाच सः ।।१२।। भदन्त परिहासोऽपि सद्भावोऽजनि मेऽधुना । रङ्कत्वेनापि तुष्टस्य सौराज्यं मे समागतम् ।।१३।। ततः स्वजनाराजाद्या यावन्नायान्ति मत्कृते । तावदन्यत्र गच्छामो नो चेद्बाधा भविष्यति ।।१४।। गुरुर्बभाषे यद्येवं ततो मार्ग निरूपय । तथैव कृतवानेष वृत्तौ गन्तुं ततस्तकौ ।।१५।। आचार्यः पृष्ठतो याति पुरतो याति शिक्षकः । रात्रौ वृद्धत्वतोऽपश्यन् मार्गे प्रस्खलितो गुरुः ।।१६।। रे दुष्ट शैक्ष ! कीदृशो मार्गः संवीक्षितस्त्वया । इति ब्रुवाणो दण्डेन शीर्षे तं हतवान् क्रुधा ।।१७।। एवं स चण्डरोषत्वाञ्चलित: स्खलितः पथि। शिरस्यास्फोटयन् याति तं शैक्षं क्षमिणां वरम् ।।१८।। शिष्यस्तु भावयामास मन्दभाग्योऽस्म्यहं यतः । महाभागो महात्मायं महाकष्टे नियोजितः ।।१९।। भगवानेष सौख्येन स्वगच्छे निवसन्मया । अहो दशां महाकष्टां प्रापित: पापिना मुधा ।।२०।। एवं भावयतस्तस्य प्रशस्तध्यानवह्निना । दग्धकर्मेन्धनत्वेन केवलज्ञानमुद्गतम् ।।२१ । । ततस्तं तद्बलेनासौ सम्यग्नेतुं प्रवृत्तवान् । प्रभाते च स तं दृष्ट्वा क्षरल्लोहितमस्तकम् ।।२२।। आत्मानं निन्दति स्मैवमधन्योऽहमपुण्यवान् । यस्य मे सति रोषाग्निशममेघे बहुश्रुते ।।२३।। परोपदेशदक्षत्वे बहुकाले च संयमे । न जातो गुणरत्नानां प्रधानः क्षान्तिसद्गुणः ।।२४ ।। अयं तु शैक्षः पुण्यात्मा धन्योऽयं गुणवानयम् । यस्याद्य दीक्षितस्यापि कोऽप्यपूर्वः क्षमागुणः ।।२५।। एवं सद्भावनायोगाद्वीर्योल्लासादपूर्वतः । आचार्यश्चण्डरुद्रोऽपि संप्राप्तः केवलश्रियम् ।।२६।। इति गाथार्थः ।।३५ ।।
* गुरुतत्त्वविनिश्चये-१/१७० * गुरुगुणरहिओ अ इह दट्ठब्बो मूलगुणविउत्तो जो ।
ण उ गुणमित्तविहूणो त्ति चंडरुद्दो उदाहरणं ।। _ 'गुरुगुण'त्ति । गुरुगुणरहितश्चेह स द्रष्टव्यो यो मूलगुणविहीनो न तु गुणमात्रविहीनो गुरुर्न भवतीति। अत्र चण्डरुद्राचार्य उदाहरणम्, यथा तस्य क्षमादिरूपोत्तरगुणवैकल्येऽपि मूलगुणसामग्र्याच्चारित्रमप्रतिहतमेवमन्येषामपीति । विवेचितमिदमन्यत्र ।।१७० ।।