________________
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
इति स्वं तीव्रसंवेगयोगान्निन्दन्नवाप सः । आचार्यश्चण्डरुद्रोऽपि शुद्धात्मा केवलश्रियम् ।।४४।। भूयः सूरिस्तयाह्नाय स्वपरिवारसम्पदा । दर्शान्त इव शीतांशुर्ज्योत्स्नया समयुज्यत ।। ४५ ।। विहृत्य सुचिरं धात्र्यामुद्धृत्य सुबहुं जनम् । भवान्धकूपादाप श्रीचण्डरुद्रः शिवास्पदम् ।।४६।। इत्थं क्षान्तिगुणेन किञ्चिदमुनैवैकेन शून्योऽपि सन्, पूर्णो मूलगुणैस्तथोत्तरगुणैः श्रीचण्डरुद्रः परैः । रेखामेष युगप्रधानगणभृत्पङ्क्तौ परां प्राप्तवान्; तत्केनापि गुणेन कश्चन गुरुर्न्यूनोऽपि पूज्यः सताम् ।।४७।।
इति गाथार्थः ।।१७६ ।।
२३४
* पञ्चाशके - १९/३५ *
अथ 'गुरुगुणरहितस्तु गुरुर्न गुरुरिति विधित्याग एव तस्येष्ट' इति यदुक्तं तत्र विशेषाभिधानायाहगुरुगुणरहिओ वि इहं दट्ठव्वो मूलगुणवित्तो जो । उगुणमेत्तविहीणो त्ति चंडरुद्दो उदाहरणं ।।
गुरुगुणरहितोऽप्यपिशब्दोऽत्र पुनः शब्दार्थः, ततश्च 'गुरुगुणरहितो गुरुर्गुरुर्न भवति' इत्यत्र गुरुगुणरहितः पुनरिह गुरुकुलवासप्रक्रमे । स एव द्रष्टव्यो ज्ञातव्यो मूलगुणवियुक्तो महाव्रतरहितः सम्यग्ज्ञानक्रियाविरहितो वा यः । न तु न पुनर्गुणमात्रविहीनो मूलगुणव्यतिरिक्तप्रतिरूपताविशिष्टोपशमादिगुणविकलः, इति हेतोर्गुरुगुणरहितो द्रष्टव्य इति प्रक्रमः, उपप्रदर्शनार्थो वेतिशब्दः । उक्तं चेहार्थे
कालपरिहाणि दोसा एत्तो इक्काइगुणविहीणेण । अण्णेण वि पव्वज्जा दायव्वा सीलवंतेण ।।
अत्रार्थे किं ज्ञापकमित्याह- चण्डरुद्रश्चण्डरुद्राभिधानाचार्य उदाहरणं ज्ञापकम् । तत्प्रयोगश्चैवम्गुणमात्रविहीनोऽपि गुरुरेव, मूलगुणयुक्तत्वात्, चण्डरुद्राचार्यवत्, तथा ह्यसौ प्रकृतिरोषणोऽपि बहूनां संविग्नगीतार्थशिष्याणाममोचनीयो विशिष्टबहुमानविषयश्चाभूत्, तत्कथानकं चैवं दृश्यते
-
चण्डरुद्राभिधानोऽभूदाचार्योऽतिबहुश्रुतः । ज्ञानादिपञ्चधाऽऽचाररत्नरत्नाकरोपमः ।।१।। असमाचारसंलोकसंज्वलत्कोपवाडवः । संक्लेशपरिहाराय गच्छपार्श्वे स्म तिष्ठति ।।२।। विहरंश्च समायात उज्जयिन्यां कदाप्यसौ । विविक्तोद्यानदेशे च तस्थौ गच्छस्य सन्निधौ । । ३ । । अथ श्रीमत्सुतः कोऽपि सुरूपो नवयौवनः । प्रधानवस्त्रमाल्यादिभूषितो मित्रवेष्टितः ।।४।। विवाहानन्तरं क्रीडन्नागतः साधुसन्निधौ । तन्मित्रैः केलिना प्रोक्तास्तं पुरस्कृत्य साधवः ।।५।। अस्मत्सखममुं यूयं हे भदन्ता विरागिणम् । निर्विण्णं भवकान्तारात्प्रव्राजयत सत्वरम् ।।६।। साधवस्तु तकान् ज्ञात्वा चसूरीकरणोद्यतान् । औषधं सूरिरेवैषामित्यालोच्य बभाषिरे ।।७।।