________________
४-साधुतत्त्वम् गा-१७६
२३३
दीक्षा यथातथा वापि गृहीता मुच्यते कथम् । अथ मुच्येत वाच्यत्वं मज्जनं च भवार्णवे ।।२२ । । तद्यात यूयं मा चैतत् कमपि ज्ञापयिष्यथ । नो चेन्मम करिष्यन्ति ज्ञातयो व्रतखण्डनम् ।।२३ ।। उक्त्वेति दत्त्वालङ्कारान् विसृष्टाः सुहदोऽमुना । अगमन् केचन क्वापि बाष्पपूरप्लुतेक्षणाः ।।२४ ।। अथ शैक्षोऽभ्यधाद्भीतिरत्र मे स्वजनात्प्रभो । प्रसद्य सद्यो गमनमन्यत्र क्रियतां ततः ।।२५।। सूरिरूचे दिवा तर्हि वर्त्मनः प्रत्युपेक्षणाम् । गत्वा त्वं कुरु येन स्याद्विहारो निशि नौ सुखम् ।।२६ ।। शैक्षकेण तथा कृत्वा विज्ञप्तो रजनीमुखे । विहितावश्यकश्चण्डरुद्रस्तेन सहाचलत् ।।२७ ।। व्यक्तमग्रस्थिते मार्गमेकाग्रे कथयत्यपि । तस्मिन् गुरुर्जराक्लिष्टः स्खलति स्म पदे पदे ।।२८ ।। पन्थानं प्रत्युपैक्षिष्ठाः कीदृशं त्वं दुराशय । इति तीक्ष्णाक्षरैः क्षारैरिवाभीक्ष्णं वपुर्दहन् ।।२९।। दण्डेन गुरुराजघ्ने शिष्यशीर्षं मुहुर्मुहुः । नश्यद्गुणाक्रन्दरवाकारठात्कारदारुणम् ।।३० ।। युग्मम् क्षमिणामग्रणी शैक्षः स दध्यौ शुद्धधीस्त्विदम् । धिगहं गुरुसन्तापपापभागभवं कथम् ।।३१।। विनीतस्येङ्गितज्ञस्य विदुषः कृतकर्मणः । गुरुः स्वपरिवारस्य तस्यान्तः सन् समाधिना ।।३२।। दुरात्मना मया प्रापि पश्य क्लेशमयी दशाम् । उपप्लवाय तिग्मांशोर्भवेद्राहोर्हि सङ्गमः ।।३३।। युग्मम् गुरुणा विकटादस्मादाकृष्टोऽस्मि भवावटात् । दुर्गमार्गाम्बुधावस्मिन् मया तु निहितो गुरुः ।।३४ ।। आक्रोशतो घ्नतो वात्र दोषः कोऽप्यस्ति नो गुरोः । अपराधो ममैवायमुपतापयतो गुरुम् ।।३५ ।। इति भावयतस्तस्य क्षमोपचितचेतसः । घातिकर्मक्षयाद्दिव्यं केवलज्योतिरुद्ययौ ।।३६ ।। करामलकवल्लोकं तेनाकलयतोऽखिलम् । सुखं च नयतः सूरिं विभातास्य विभावरी ।।३७ ।। ततो नवोदितादित्यकिरणालिमिवारुणाम् । गुरुः क्षरन्तीमैक्षिष्ट शैक्षे रुधिरधोरणीम् ।।३८ ।। ऊचे चेदृक्षचरितश्चिरप्रव्रजितोऽप्यहम् । त्वमद्यदीक्षितोऽपीदृगहो नौ महदन्तरम् ।।३९ ।। गुरौ मय्यसती क्षान्तिस्त्वयि शिष्ये कथं गता ? । अविद्यमानं कूपेम्बु प्रणाल्यां कथमागतम् ? ।।४० ।। धिगधन्यं गुणैः शून्यं न्यूनं चारित्रपर्यवैः । मामाचार्यब्रुवंकोटिमारूढं क्रोधपाप्मनः ।।४१ ।। अस्य मे सुकुले जन्म प्रव्रज्या दीर्घकालिकी । चिराद्गुरुपदोपास्तिः सूत्रार्थावगमो मनाक् ।।४२।। आचार्यत्वं परिवारस्तत्किं यन्न क्षमोचितम् ।
तथापि दुर्भगं स्त्रीव न क्षमा मां स्पृशत्यपि ।।४३।। युग्मम् १. आचार्यखेटं माम् A