SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ ४- साधुतत्त्वम् गा - १७६ चक्रे ० : सर्वजिनानां भरतैरवतविदेहतीर्थकृताम्, नित्यं बकुशकुशीलाभ्यां वर्त्तते तीर्थम्, पुलाकादीनामल्पत्वात्कादाचित्कत्वाच्च, नवरं केवलमयं विशेषः सत्त्वेन कषायसत्तयाऽप्रमत्तयतयोऽपि सप्तमगुणस्थानवर्तिनोऽपि कषायकुशीला भण्यन्ते, अत एवम्भूताः कषायकुशीला अपि यावत्तीर्थं भवन्तीति भावः । । १७५ ।। - २३१ -= देव० : सर्वजिनानां पुरिमान्तिममध्यमविदेहजतीर्थकृतां बकुशकुशीलाभ्यां वर्त्तते तीर्थं प्रवचनं नित्यमिति सततं पुलाकादीनामल्पत्वात्कादाचित्कत्वात् सतामपि च तीर्थप्रवृत्तिं प्रत्यनङ्गत्वात्, नवरं केवलमयं विशेष: कषायकुशीला अप्रमत्तयतयोऽपि सप्तमगुणस्थानवर्त्तिनोऽपि भण्यन्त इति विशेषः, कथम् ? सत्त्वेन कषायसत्तयेति गाथार्थः।।१७५।। - चक्रे० : यत एव बकुशकुशीलाभ्यां तीर्थप्रवृत्तिरत एव देव० : अथ सिंहावलोकनन्यायेन यदुक्तं प्राग् यस्तं स्थापयत्यपात्रे स महापाप इति तद्विशिनष्टि, यदि वा यत एव बकुशकुशीलाभ्यां तीर्थप्रवृत्तिरत गुरुगुणरहिओ य इह दट्ठव्वो मूलगुणविउत्तो जो । न उ गुणमित्तविहीणु त्ति चंडरुद्दो उदाहरणं । । १७६ ।। चक्रे० : गुरुगुणरहितश्चेह गुरुविचारे स एव द्रष्टव्यो यो मूलगुणवियुक्तः, उपलक्षणत्वादभीक्ष्णमुत्तरगुणविराधकश्च, जो चयइ उत्तरगुणे मूलगुणे वि अचिरेण सो चयइ [ उपदेशमाला- ११७] इति वचनात् । न पुनर्गुणमात्रविहीनः प्रियवचनविशिष्टोपशमादिगुणविकल इत्यत्रार्थे चण्डरुद्राचार्य उदाहरणं दृष्टान्तः, अयं हि प्रकृतिरोषणोऽपि बहूनां संविग्नगीतार्थशिष्याणाममोचन बहुमानविषयश्चाऽभूत् ।। १७६ ।। देव० : चशब्दोऽत्र पुनः शब्दार्थः, ततो गुरुगुणरहितः पुनरिह गुरुविचारे स एव द्रष्टव्यो ज्ञातव्यः, यः किम् ? यो मूलगुणवियुक्तो महाव्रतादिविरहितः सम्यग्ज्ञानक्रियारहितो वा, उपलक्षणत्वादभीक्ष्णमुत्तरगुणविराधकश्च 'जो चयइ उत्तरगुणे मूलगुणे वि अचिरेण सो चयइ' इति वचनात्, न तु न पुनर्गुणमात्रविहीनो मधुरभाषणविशिष्टोपशमादिगुणविकल इत्यस्मिन्नर्थे चण्डरुद्रश्चण्डरुद्राचार्य उदाहरणं दृष्टान्तः, इह च प्रयोगो गुणमात्रविहीनोऽपि गुरुरेव, १. गुणमित्तविहीण त्ति P. K, गुणमेत्तविहीणो विZ
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy