________________
२३०
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
एकस्यापरस्य [च] भावात् । निर्ग्रन्थग्रहणं संयतानामुपलक्षणम्, तत एतदपि द्रष्टव्यम् - संयतैविना न तीर्थम्, नापि तीर्थमन्तरेण संयताः । निर्ग्रन्थाः संयताश्च प्रथमसंहनन - चतुर्दशपूर्वधर - व्यवच्छेदेऽपि विद्यन्ते, यतो यावत् षट्कायसंयमस्तावद् द्वयानामपि अनुषञ्जना अनुवर्त्तना समस्ति । षट्कायसंयमश्च प्रत्यक्षतोऽद्याप्युपलभ्यते, ततः सन्ति निर्ग्रन्थाः, सन्ति संयता इति प्रतिपत्तव्यम् । तत्सत्त्वप्रतिपत्तौ च तीर्थ सचारित्रमित्यपि प्रत्येतव्यम् । चारित्रे च सति प्रायश्चित्तमिति ।।४१९७।।
चक्रे० : उत्तरार्धमेव विवृण्वन्ति - देव० : उत्तरार्धमेव विवृणोति -
जा संजमया जीवेसु ताव मूला य उत्तरगुणा य ।
इत्तरियछेयसंजम नियंठ बउसायपडिसेवी।।१७४ ।। चक्रे० : यावत्संयमता जीवेषु, शेषगुणाभावेऽपि यावत् षड्जीवरक्षामपि लभ्यते । तावन्मूला मूलगुणा उत्तरगुणाश्च, यावच्चैते तावदित्वरच्छेदसंयमौ सामायिकसंयमच्छेदोपस्थापनीयसंयमौ, यावच्चैतौ तावनिर्ग्रन्थौ बकुशायप्रतिषेविणौ । आयो ज्ञानादिलाभस्तस्य प्रतिकूलं सेवन्ते चेष्टन्त आयप्रतिषेविणो ज्ञानाद्युपजीवकाः प्रतिषेवणाकुशीला इत्यर्थः । अनुषज्येत इति सर्वत्र योज्यम् ।।१७४।।।
देव० : यावत् स्वार्थिकतल्प्रत्ययान्तत्वात् संयमता रक्षणम्, केषु विषये ? जीवेषु पृथिव्यादिषु, शेषगुणासम्भवेऽपि यावत् षड्जीवरक्षामात्रमपि लभ्यत इत्यर्थः । तावदुत्तरपदस्थगुणशब्दस्येहापि सम्बन्धान्मूलगुणा उत्तरगुणाश्च, यावच्चैते तावदित्वरं च सामायिकं सामायिकसंयमः, भीमादिन्यायेन च्छेदोपस्थापनीयसंयमश्च तौ, विभक्तिलोपश्चेह, यावच्चैतत्संयमद्वयं तावनिर्ग्रन्थौ, कौ ? चकारस्य च्छन्दोभङ्गभयान्मध्यपाताद्दीर्घत्वस्य च प्राकृतत्वाद् बकुशप्रतिषेविणौ च बकुशप्रतिषेवणाकुशीलावित्यर्थः । अनुषज्येत इति सर्वत्र योग इति गाथार्थः । ।१७४।।
चक्रे० : एषैव सर्वतीर्थेषु व्यवस्थेत्याहुः - देव० : एतदेव समस्ततीर्थकृत्तीर्थव्यवस्थितत्वेन समर्थयन्नाह -
सव्वजिणाणं निचं बकुसकुसीलेहिं वट्टए तित्थं ।
नवरं कसायकुसीला अपमत्तजई वि. सत्तेण ।।१७५ ।। १. बकुसा P. K २. वि संतेण A.T.C. वसंतेणं P