SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २२६ रणम् - सम्यक्त्वप्रकरणम चक्रे० : अत्र चार्थे - देव० : इह च - केसिंचि य आएसो दंसणनाणेहिं वट्टए तित्थं । वोच्छिन्नं च चरित्तं वयमाणे होइ पच्छित्तं ।।१६९।। चक्रे० : केषाञ्चिदागमानभिज्ञानामादेशो मतम्, यथा 'दर्शनज्ञानाभ्यां वर्त्तते तीर्थं चारित्रं च व्यवच्छिन्नम्' इति वदति ब्रुवाणे भवति प्रायश्चित्तम् ।।१६९ । । देव० : केषाञ्चित्प्रवचनैकदेशिनामादेशो मतम्, किमित्याह-दर्शनज्ञानाभ्यां वर्तते प्रवहति तीर्थं चतुर्वर्णः सङ्घः, चशब्दो हेतो, यतो व्यवच्छिन्नं निवृत्तं चारित्रम्, तथा चागमः - मूलगुणउत्तरगुणा जम्हा भंसंति चरणसेढीओ । तम्हा जिणेहिं दोन्निवि पडिसिद्धा सव्वसाहूणं ।। [गुरुतत्त्व. १-८९] अग्गग्घाओ हणे मूलं मुलग्घाओ य अग्गयं । इति, अस्य व्याख्या - ‘जहा तालदुम्मस्स अग्गसूईए हयाए मूलो हओ चेव, मूलेवि हए अग्गसूई हया, एवं मूलोत्तरगुणेसुवि उवसंहारो, एवं च नत्थि कोइ सो संजओ जो मूलुत्तरगुणाणं अन्नयरं न पडिसेवइ, अन्नयरगुणपडिसेवपो य दुण्हवि मूलुत्तराण अभावो, दुण्हवि अभावे सामाइयसंजमस्स अभावो । संजमस्स अभावे पंचण्हवि नियंट्ठाणं अभावो, एवं च अचरित्तं तित्थं भवइत्ति सोपस्कारत्वादिति वदति ब्रुवाणे भवत्यापद्यते प्रायश्चित्तमागमप्रतीतम्, अन्यथा प्ररूपणेन श्रुतस्याऽऽशातनासम्भवाद्, यतोऽत्रैव वक्ष्यति सिद्धान्तवचनम्-'जो संजमए' इत्यादि । किञ्च चारित्रनिषेधकैरपि दुष्प्रसभान्तं तीर्थानुवृत्तिरिष्टैव, न च ज्ञानदर्शनचारित्रव्यतिरिक्तं तीर्थमस्तीति स्ववचनव्याघातस्तथा च श्रीभद्रबाहुः - 'दंसणनाणचरित्तंमि निउत्तं जिणवरेहिं सव्वेहिं एएण होइ तित्थं' इति, तस्मात्तीर्थमिच्छता चारित्रमप्यकामेनैष्टव्यम् । किञ्च यदि दर्शनज्ञानाभ्यामेव तीर्थं वर्तेत तदा श्रेणिकप्रभृतीनामपि श्रमणत्वं प्रसज्येत, तेषामपि दर्शनज्ञानसद्भावाद्, न च वाच्यं तेऽपि श्रमणा एव, श्रामण्यगुणयुक्तस्य नरकेष्वनुपपातात्, तेषां च नरकगमनप्रतिपादनाद् । यदप्येकविंशतिवर्षसहस्राणि तीर्थानुवृत्तिरुच्यते तदपि नोपपद्येत, दर्शनज्ञानयोः षट्स्वपि समास्ववस्थितत्वात्, तयोरेव च मोक्षमार्गत्वे सर्वगतिभ्योऽपि मुक्तिगमनप्रसङ्गाच्चेति स्थितं साम्प्रतमपि चारित्रसहितं तीर्थमिति गाथार्थः । ।१६९ ।। १. वुच्छिन्नं PK
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy