________________
४- साधुतत्त्वम् गा- १६७, १६८
चक्रे० : अथ निर्ग्रन्थस्नातकापेक्षया हीनगुणान्ां बकुशकुशीलानां कथमित्थं प्रतिपत्तिरित्याहुःदेव० : अथ स्नातकाद्यपेक्षया हीनगुणानामन्येषां कथमित्थं प्रतिपत्तिरित्याह
पलए महागुणाणं हवंति सेवारिहा लहुगुणा वि । अत्थमिए दिणना अहिलसइ जणो पईवंपि । । १६७ ।।
चक्रे० : पाठसिद्धा, नवरं प्रलय अभावे ।। १६७ ।।
देव० : स्पष्टार्था, नवरं प्रलयेऽभावे महागुणानां स्नातकादीनां लघवः शबलत्वकषायकलुषितत्वाभ्यां गुणाश्चारित्रगुणा येषां ते तथा, यतोऽस्तमिते दिननाथे सवितरि प्रदीपमप्यभिलषति जनस्तेनापि तमसि घटघटीसरावोदञ्चनादि पदार्थावलोकनेन स्वार्थसिद्धेरिति । । १६७ ।।
चक्रे० : आगमोऽप्येवमेव व्यवस्थितस्तथाहि
देव० : यस्मादागमोऽप्येवमेव व्यवस्थितस्तथाहि -
२२५
1
सम्मत्तनाणचरणाणुवाइमाणाणुगं च जं जत्थ । जिणपत्रत्तं भत्तीए पूयए तं तहाभावं । । १६८ ।
चक्रे० : सम्यक्त्वज्ञानचरणाऽनुपातिनं साक्षादागमाऽनुक्तमप्याज्ञानुगं जिनोक्तानुसारिणं यं भावं गुणविशेषं यत्र पुरुषे पश्येदिति शेषः । शेषगुणाऽभावेऽपि तं जिनप्रज्ञप्तमिति मनसि कृत्वा भक्त्या बहुमानतस्तथा तेन प्रकारेण गुणविशेषाऽनुमानेन पूजयेत् सत्कारयेदित्यर्थः । । १६८ ।।
देव० : सम्यक्त्वं च ज्ञानं च चरणं च तान्यनुपतत्यनुगच्छतीति तदनुपाती, तं तथाऽऽज्ञानुगं चाप्तोपदेशानुसारि, इह च साक्षादागमानुक्तमपि यत्किञ्चित्सम्यक्त्वाद्यनुपाति स्यादिति तस्य पृथगुपन्यासोऽयम्, यत्र पुरुषे पश्येदिति शेषः । तं भावं पर्यायविशेषं गुणाभावेऽपि जिनप्रज्ञप्तमितिकृत्वा भक्त्या बहुमानतस्तथा सम्यक्त्वाद्युचितप्रतिपत्तिप्रकारेण पूजयेत् सत्कारयेदिति गाथार्थः । । १६८ ।।