________________
२२४
दर्शनशद्धिप्रकरणम - सम्यक्त्वप्रकरणम
चक्रे० : अथ यावत्तीर्थभाविनौ तौ प्रति किं कार्यमित्याहुः - देव० : यतस्तौ यावत्तीर्थमनुषज्येते ततः किमित्याहः -
ता तेसिं असढाणं जहसत्ति जहागमं जयंताणं ।
कालोचियजयणाए बहुमाणो होइ कायव्वो।।१६५ ।। चक्रे० : तत् तस्मात्तयोर्बकुशकुशीलयोरशठयोर्यथाशक्ति यथागमम्, कालो दुःषमा तदुचितयतनया यतमानयोर्बहुमानः पूजा कर्तव्यः ।।१६५ ।।
देव० : तत्तस्मात्तयोर्बकुशकुशीलयोरशठयोरमायाविनोर्यथाशक्ति यथाबलं यथागममागमानतिक्रमेण यतमानयोरुद्यतयोः, कथम् ? कालो दुःषमा तदुचितयतनया, बह्वतिशयेन मानः पूजा भवति कर्त्तव्य इति गाथार्थः ।।१६५ ।।
चक्रे० : अथ पूजामेव व्यञ्जयन्ति - देव० : अथ पूजामेव व्यनक्ति -
बहुमाणो वंदणयं निवेयणा पालणा य जत्तेण ।
उवगरणदाणमेव य गुरुपूया होइ विनेया।।१६६।। चक्रे० : बहुमाणो मानसिकी प्रीतिः, वन्दनकं द्वादशावर्त्तम्, निवेदना द्रव्यतो धनधान्यादिसर्वस्वसमर्पणम्, भावतः सर्वात्मना मनसा समर्पणम्, पालना तदुपदेशाऽऽराधनम्, यत्नेन रहस्यमेतदित्यादरेण, उपकरणस्य वस्त्रादेर्दानम्, एवेति समुच्चये, चकारादभ्युत्थानाऽभिगमनाऽनुगमनादिका च गुरुपूजा भवति विज्ञेया ।।१६६।।
देव० : बहुमानो मानसिकी प्रीतिर्वन्दनं द्वादशावर्तम्, निवेदना द्रव्यतो भावतश्च, तत्र द्रव्यतो धनधान्यादिसर्वस्वसमर्पणम्, भावतः सर्वात्मना मनःसमर्पणम्, पालना तदुपदेशाऽऽराधनम्, चकारस्याऽवधारणार्थत्वाद्, यत्नेनैव परमरहस्यमिदमित्यादरेणोपकरोति संयममनुतिष्ठतः साधोरुपकारं करोतीत्युपकरणं वस्त्रपात्रादि, तस्य दानं वितरणमेवेति समुच्चये, चकारोऽभ्युत्थानाऽऽगच्छदभिगमनगच्छदनुव्रजनाऽञ्जलिप्रग्रहादिबाह्यप्रतिपत्तिसूचकः, किम् ? गुरुपूजा भवति विज्ञेयेति गाथार्थः ।।१६६।।
१. बहुमाणं A २. सर्वस्वार्पणा P. K ३. समर्पणा A. T. B. C