________________
४- साधुतत्त्वम् गा- १६४
ते पञ्चविधा उक्ताः,
ग्रन्थादान्तरान्मिथ्यात्वादेर्बाह्याच्च धर्मोपकरणवर्जधनादेर्निर्गता निर्ग्रन्थाः साधवः, यथा - पुलाको बकुश: कुशीलो निर्ग्रन्थः स्नातकश्चेति, एतेषां च पुलाकादीनां सर्वेषां सामान्यतश्चारित्रसद्भावेऽपि मोहनीयकर्मक्षयोपशमादिवैचित्र्याद्भेदोऽवगन्तव्यः, एकैकोऽपि स पुलाकादिर्द्विविधो भवेत्, द्वैविध्यं च सूत्रकृदेवाग्रे प्रकटयिष्यति । । ७१९ ।।
चक्रे० : अथैते सर्वे सम्प्रति प्राप्यन्ते किं वा कतिचिदेवेत्याहुः देव० : अथैते सर्वेऽपि सम्प्रति प्राप्यन्ते किं वा कतिचिदेवेत्याह निग्गंथसिणायाणं पुलायसहियाण तिण्ह वोच्छेओ ।
कुसकुसीला नि व जा तित्थं ताव होहिंति । । १६४ । ।
चक्रे० : स्पष्टा । । १६४ ।।
देव० : निर्ग्रन्थस्नातकयोः पुलाकसहितयोस्त्रयाणां व्यवच्छेदो निर्वृत्तिर्जन्म प्रतीत्य तेषां तृतीयचतुर्थारकयोरेव भावात् । अथ निर्ग्रन्थादिषु नामग्राहमभिहितेषु त्रयाणामिति गतार्थः, सत्यम्, गतार्थानामपि दृश्यत एव लोके प्रयोगस्तथा चाह जिनेन्द्रबुद्धिः - यदि गतार्थानामप्रयोग एव स्यात्तदा पचति देवदत्त इत्यत्र पचतीत्येतत् तिवैकत्वस्याभिहितत्वाद्देवदत्त इति स एकवचनं न स्यादिति । बकुशकुशीलौ द्वावपीति प्राग्वत् । यावत्तीर्थं श्रीमहार्वीरस्य तावद् भविष्यतः, तथा च व्यवहारभाष्यम्- 'बउसपडिसेवगा खलु इत्तिरिच्छेया य संजया दुन्नि जो तित्थणुसज्जति त्ति गाथार्थः ।।१६४।।
=
* प्रवचनसारोद्धारे - ७३० *
अथैते पुलाकादयः पञ्चापि कियन्तं कालं यावत्प्राप्यन्ते ? तत्राह -
निग्गंथसिणायाणं पुलायसहियाण तिण्ह वोच्छेओ । समणा उसकुसीला जा तित्थं ताव होहिंति ।।
२२३
निर्ग्रन्थस्मतकानां पुलाकसहितानां त्रयाणामपि निर्ग्रन्थभेदानां व्यवच्छेदोऽ भावो 'मणपरमोहिपुलाए' इत्यादिवचनाज्जम्बूस्वामिनोऽनन्तरमेते त्रयोऽपि न जाता इत्यर्थः, बकुशकुशीललक्षणाः पुनः श्रमणाःसाधवो यावत्तीर्थं तावद्भविष्यन्ति, 'बकुसकुसीलेहिं वट्टए तित्थं' इति वचनात् ।।७३० ।।
१. वुच्छेओ P K २. दोणि A, दोन्नि Z