SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ ४-साधुतत्त्वम् गा-१७०, १७१ २२७ चक्रे० : अमुमेवार्थं भावयन्ति - देव० : पूर्वोक्तमेव भावयन्नाह - ___ जो भणइ नत्थि धम्मो न य सामइयं न चेव य वयाइं । सो समणसंघबज्झो कायव्यो समणसंघेण।।१७०।। चक्रे० : स्पष्टा।।१७० ।। देव० : यो भणति नास्ति धर्मः क्षान्त्यादिलक्षणो न च सामायिकं रागद्वेषाभावरूपम्, न चैव चेति समुच्चये, व्रतानि महाव्रतानि स श्रमणसङ्घबाह्यः साधुसङ्घबहिर्भूतः कर्तव्यः श्रमणसङ्घन, द्वादशविधसम्भोगेन परिहर्त्तव्यः, सम्भोगश्च यथा - उवहि - सुय - भत्तपाणे - अंजलीपग्गहेइ य । दायणाय - निकाये य - अब्भुट्ठाणित्तिआवरे ।। किइकम्मस्स य करणे - वेयावञ्चकरणेणि य । समोसरणं - सन्निसिज्जा य - कहाए य पवंधणे।। [ अस्य रूपकस्याऽर्थो निशीथपञ्चमोद्देशकभाष्यादवसेयः । नवरं दायणत्ति शिष्यगणार्पणम्, निकायत्ति शय्योपध्यादिभिर्निमन्त्रणम्, यत्रानुयानादिषु बहवः साधवो मिलन्ति तत्समवसरणम्, सन्निसिज्जायत्ति निषद्यागतस्य निषद्यागतेन सह श्रुतपरावर्तनम्, कथाया वादजल्पादिरूपायाः प्रबन्धनमिति गाथार्थः ।।१७० ।। चक्रे० : किमिति स बहिः कार्य इत्याहुः - देव० : किमिति - दुप्पसहंतं चरणं जं भणियं भगवया इहं खेत्ते । आणाजुत्ताणमिणं न होइ अहुण त्ति वामोहो ।।१७१।। चक्रे० : दुष्प्रसभान्तं दुष्प्रसभाचार्यपर्यन्तम्, आज्ञायुक्तानां साधुनां चरणं चारित्रम्, यद् यस्माद् भणितं भगवता श्रीवीरस्वामिनेह क्षेत्रे भरताख्ये तस्मादिदं न भवत्यधुनेति यस्य मतिस्तस्य व्यामोहो मूढतेति स बहिः कार्य इत्यर्थः ।।१७१।।
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy