________________
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
आलयो वसतिः सुप्रमार्जितादिलक्षणाऽथवा स्त्रीपशुपण्डकविवर्जितेति, तेनाऽऽलयेन, नागुणवत एवंविधः खल्वालयो भवति, विहारो मासकल्पादिस्तेन विहारेण, स्थानमूर्ध्वस्थानम्, चङ्क्रमणं गमनम्, स्थानं च चङ्क्रमणं चेत्येकवद्भावस्तेन च, अविरुद्धदेशकायोत्सर्गकरणेन च युगमात्रावनिप्रलोकनपुरस्सराद्रुतगमनेन चेत्यर्थः, शक्यः सुविहितो ज्ञातुम्, भाषावैनयिकेन च विनय एव वैनयिकं समालोच्य भाषणेनाऽऽचार्यादिविनयकरणेन चेति भावना, नैतान्येवम्भूतानि प्रायशोऽसुविहितानां भवन्तीति गाथार्थः । । ११४८ ।।
चक्रे० : अथेत्थम्भूतस्य साधोर्विचित्रचारित्रमोहनीयक्षयोपशमभेदतो नामान्याहुः - देव० : अथेत्थम्भूतस्य सुविहितस्य विचित्रचारित्रमोहनीयक्षयोपशमोपशमक्षयभेदतो
नामान्याह
२२०
-
पलायनामो पढमो चरित्ती बीओ बउस्सो तइओ कुसीलो । चउत्थओ होइ नियंठनामो सव्युत्तमो पंचमओ सिणाओ । । १६३ । । चक्रे० : १- पुलाको निस्सारो धान्यकणस्तद्वन्मनागसारसंयमः, साधुरपि पुलाकस्तन्नामा प्रथमश्चारित्री, स द्विधा लब्धिप्रतिषेवाभेदात् तत्र लब्धिपुलाको लब्धिविशेषवान् यदाह
संघाइयाण कज्जे चुण्णिज्जा चक्कवट्टिसिन्नंपि ।
ती लद्धीए जुओ लद्धिपुलाओ मुणेयव्वो ।। [ संबोधप्र० ७५३]
—
प्रतिषेवापुलाकः स्खलितादिभिर्ज्ञानाद्यसारताकारी । २ - द्वितीयश्चारित्री बकुशसंयमयोगाद्वकुशो बकुशं कर्बुरम्, सोऽपि द्विविधस्तत्र वस्त्रपात्राद्युपकरणविभूषाकृत् प्रथमः, करचरणनखमुखादिदेहावयवविभूषाकृद् द्वितीयः । ३- तृतीयः कुशील एषोऽपि द्विधा ज्ञानादिप्रतिषेवणाकुशीलो ज्ञानाद्युपजीवकः, कषायकुशीलः कषायैर्ज्ञानादिविराधकः । ४- चतुर्थको भवति निर्ग्रन्थनामा निर्गतो ग्रन्थान्मोहनीयाख्यादिति निर्ग्रन्थ उपशान्तमोहक्षीणमोहगुणस्थानकस्थो मुनिः । ५ - सर्वोत्तमः पञ्चमकः स्नात इव स्नातको घातिकर्ममलक्षालनात् केवलज्ञानीत्यर्थः । एत उत्तरोत्तरं शुद्धचारित्राः, एषां च विस्तारविचारः प्रज्ञप्तिपञ्चविंशतितमशतषष्ठोद्देशकाद् ज्ञेय इति वृत्तार्थः । । १६३ । ।
देव : तत्र पुलाको निःसारशाल्यादिकणस्ततः पुलाकवत्पुलाकः, संयमसारापेक्षया च संयमवानपि मनाक् तमसारं कुर्वन् पुलाक इत्युच्यते ततः पुलाक इति नाम यस्य स तथा प्रथम आद्यश्चारित्री साधुरयं च द्विविधो लब्धिप्रतिषेवाभेदात्, तत्र लब्धिपुलाको लब्धिविशेषवान्, यदाह