SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ ४-साधुतत्त्वम् गा-१६२ आलयविहारभासा चंकमणट्ठाणविणयकम्मेहिं । सव्वन्नुभासिएहिं जाणिज्जइ सुविहिओ साहू । । १६२ । । चक्रे० : आलयः सुप्रमार्जितादिः स्त्रीपशुपण्डकरहितश्चोपाश्रयः, विहारो मासकल्पादिः, भाषा सूचकत्वात् सूत्रस्य भाषासमितिः, चङ्क्रमणमीर्योपयुक्तस्य गमनम्, अत्र चैकग्रहणेन तज्जातीयग्रहणादखिलप्रवचनमातॄणां ग्रहणं ज्ञेयम्, स्थानमूर्ध्वस्थानं निष्क्रमप्रवेशादिप्रदेशवर्जितम्, विनयकर्म मिथो विनयाहेषूचितप्रतिपत्ति एषां द्वन्द्वः, एतैः सर्वज्ञभाषितैर्लिङ्गैर्ज्ञायते सुविहितः साधुः ।। १६२ ।। २१९ देव० : आलंयः सुप्रमार्जितादिलक्षणः, स्त्रीपशुपण्डकादिदोषरहितो वोपाश्रयः, विहारो मासकल्पादिः, भाषा देशेन समुदायावगमाद्भाषासमितिः । चङ्क्रमणमीर्योपयुक्तस्य गमनक्रियाऽत्र चैकग्रहणे तज्जातीयग्रहणादखिलप्रवचनमातॄणां ग्रहणं मन्तव्यम् । स्थानमूर्ध्वस्थानं निष्क्रमप्रवेशादिप्रदेशवर्जितम्, विनयकर्म परस्परं विनयार्हेषूचितप्रतिपत्तिरमीषां द्वन्द्वः । एतैः सर्वज्ञभाषितैस्तीर्थकृदुक्तैर्लिङ्गैरिति गम्यम्, ज्ञायतेऽवगम्यते सुष्ठु शोभनं विहितमनुष्ठानं यस्य स सुविहितः साधुर्यतिः । न चैवमप्यङ्गारमर्दकोदायिनृपमारकादिभिर्व्यभिचारः, प्रायशः संवादित्वादन्यथा धूमादीनामप्यग्निज्ञानादौ सम्यग् हेतुत्वं न स्यात्, तेषामपि क्वचिद्विप्रतारकगोपालधूमभृतघटिकादौ व्यभिचारदर्शनाद्, व्यवहारनयप्राधान्येनैव च छद्मस्थानां प्रवृत्तेः, अत एव च यावत्तत्सम्यग्भावो न ज्ञायते तावत्तेषामपि बाह्यलिङ्गपरीक्षया प्रतिपत्तिः कर्मक्षयायैव, किं चातिशयज्ञानिनोऽपि पुरस्कुर्वन्त्येव व्यवहारनयं यदाह १ व्यवहारोवि ह बलवं जं छउमत्थंपि वंदई अरहा । जो होइ अणाभिन्नो जाणतो धम्मयं एयं ।। [पञ्चवस्तु-१०१६] १. अरिहा A इति गाथार्थः ।। १६२ ।। * आवश्यकनिर्युक्तौ - ११४८ * इत्थं चोदकेनोक्ते सति व्यवहारनयमतमधिकृत्य गुणाधिकत्वपरिज्ञानकारणानि प्रतिपादयन्नाचार्य आह आलएणं विहारेणं ठाणाचंकमणेण य । सक्को सुविहिओ नाउं भासावेणइएण य ।।
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy