________________
२१८
रणम् - सम्यक्त्वप्रकरणम
चक्रे० : अथ सामान्यजनोचितमन्वयव्यतिरेकेण गुरोर्लक्षणमाहुः - देव० : अथ मुग्धजनोचितमन्वयव्यतिरेकतो गुरोर्लक्षणमाह -
अक्खरु अक्खइ किंपि न ईहइ अनुवि भवसंसारह बीहइ । संजमनियमिहिं खणु वि न मुञ्चइ एहा धम्मिय सुहगुरु वुञ्चइ।।१६०।। छविहजीवनिकाउ विराहइ पंच वि इंदिय जो न वि साहइ ।
कोहमाणमयमच्छरजुत्तउ सो गुरु नरयह नेइ निरुत्तउ।।१६१।। चक्रे० : रूपकद्वयं स्पष्टम्।।१६०, १६१।। देव० : अक्षरं धर्मप्रतिबद्धमाख्याति, तच्च कथयन् व्यासादिवन्न किञ्चिदीहते श्रोतृभ्यस्तस्यात्मभावक्रीतत्वेनाकल्प्यत्वाद्, एतेन धर्मार्थिनैव देशना विधेयेति, अन्यञ्च भवे चतुर्गतिके संसारः पर्यटनं तस्माद् बिभेति, मा क्वचिदुत्सूत्रं भविष्यतीति । समिति सम्यग् यमा अहिंसादयो मूलगुणा इत्यर्थः, नियमाः शौचादय उत्तरगुणा इत्यर्थः, यदाह -
अहिंसासुनृतास्तेय-ब्रह्माकिञ्चनता यमाः ।
नियमाः शौचं सन्तोषः स्वाध्यायतपसी अपि ।। [षड्दर्शनस. १५१] देवताप्रणिधानं चेति तैः क्षणमपि न मुच्यत ईदृशो हि धार्मिक शुभगुरुरुच्यत इति।।
यस्तु षड्विधजीवनिकायं विराधयति हिनस्ति, पञ्चाप्यास्तामेकादिकमिन्द्रियाणि करणानि यो नैव साधयति जयत्यनिरुद्धाश्रवोऽसंवरश्चेत्यर्थः । क्रोधः कोपो मानो दुरभिनिवेशो मदो जात्याधुत्सेको मत्सरः परगुणाद्यसहिष्णुता, तैर्युक्तो य इत्यत्रापि योगः, स गुरुरिव गुरुस्तदाभासित्वेन नरकं नयति श्रोतारमिति गम्यते, 'निरुत्तउत्ति लोकरूढ्या निश्चितः स्वक्रियानुरूपदेशित्वात्तस्येति वदनकद्वयार्थः ।।१६०, १६१।।
चक्रे० : अत्र कथं प्रथमदर्शन एव गुरुगुणाऽवगम इत्याहुः - देव० : अथ किमर्थमभीक्ष्णमिह गुरोर्गुणोद्घोषणा ? सत्यमैहिकामुष्मिकसदनुष्ठानस्य सर्वस्यापि गुरुमूलत्वादतस्तत्परीक्षाव्यतिरेकेण प्रवर्त्तमानस्य विप्रतारकमार्गदेशकवचनप्रवृत्तस्येव मा भूद् दुरुत्तरसंसाराटवीविनिपातस्तद्गुणप्रतीतिश्च कस्यचित्कथञ्चिज्जायत इत्यनेकधा गुरुगुणव्यावर्णनमदुष्टमिति, ननु तथापि प्रथमदर्शन एव कथं तद्गुणावगम इत्याह - १. मत्सर T,C मच्छरि A २. गर्वो T,B,C ३. रुपकद्वयार्थः T,B,C ४. गुरोर्गुणपरावृत्तिः T,B,C