________________
४-साधुतत्त्वम् गा-१५७, १५८, १५९
२१७
चक्रे० : तदेवं गुरोर्गुणानुपवर्ण्य तस्यैव माहात्म्यमाहुः - देव० : तदेवं गुरुगुणग्राममुपवर्ण्य तस्यैव माहात्म्यमाह -
तं सुगुरुसुद्धदेसणमंतक्खरकनजावमाहप्पं । ___जं मिच्छविसपसुत्तावि केइ पावंति सुहबोहं ।।१५७।। चक्रे० : स्पष्टा, नवरं केचिदासन्नसिद्धिकादयः ।।१५७ ।। देव० : तत् सुगुरुशुद्धदेशनैव मन्त्राक्षराणि, तेषां कर्णजापस्तस्य माहात्म्यं प्रभावः, यत्किम् ? यद्भावप्रधानत्वान्निर्देशस्य, मिथ्यात्वमेव सद्बोधप्रतिबन्धित्वसाधर्म्यण विषं तेन प्रसुप्ता इव प्रसुप्ताः प्रणष्टसंविदः, अपिः प्रकर्षद्योतने, केचिदासन्नसिद्धिकादयः प्राप्नुवन्ति शुभबोधमिति गाथार्थः ।।१५७ ।। चक्रे० : तथा - देव० : तथा -
सग्गाऽपवग्गमग्गं मग्गंताणं अमग्गलग्गाणं ।
दुग्गे भवकंतारे नराण नित्थारया गुरुणो ।।१५८।। चक्रे० : स्वर्गापवर्गमार्ग मार्गयमाणानाम्, अथवाऽमार्गलग्नानां दुर्गे भवकान्तारे नराणां निस्तारका गुरव इत्यर्थः ।।१५८ ।।
देव० : स्वर्गापवर्गमार्ग मार्गयमाणानाममार्गलग्नानां दुर्गे भवकान्तारे नराणां निस्तारका गुरव इति गाथार्थः ।।१५८ ।।
चक्रे० : अन्यच्चदेव० : अन्यच्च
अन्नाणनिरंतरतिमिरपूरपडिपूरियंमि भवभवणे ।
को पयडेइ पयत्थे जइ गुरुदीवा न दिप्पंति।।१५९।। चक्रे० : अत्र चाऽर्थे केशिगणधरप्रदेशिपार्थिवयोर्दृष्टान्तः ।।१५९।। देव० : निगदसिद्धा।।१५९ ।। १. सुहबोहिं P. K. २. परिपूरियंमि A,T.C.Z