________________
२१६
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
इत्यादि तान् प्रतिक्षिपति, यतस्तैरेवोक्तम् -
सर्वे वेदा न तत्कुर्युः सर्वे यज्ञाश्च पार्वति ।
सर्वतीर्थाभिषेकश्च यत्कुर्यात् प्राणिनां दया ।। [ ] इति तथा सुरतसङ्गमवर्जनेनैव गृहिणीवर्जने सिद्धे यत्पुनस्तद्भणनं तद्धर्मपत्न्या अपि परिहारार्थम्, तथा च केचिदाहुः - क्रियाणां खलु धाणां सत्पत्न्यो मूलसाधनमिति।।१५४ ।।
चक्रे० : अथैतद्रत्नत्रयं कथं ज्ञेयमित्याहुः - देव० : अथैतद्रत्नत्रयं कथमवबुध्यत इत्याह -
देवं गुरुं च धम्मं च भवसायरतारयं ।
गुरुणा सुप्पसनेण जणो जाणइ निच्छियं ।।१५५।। चक्रे० : पाठसिद्धा।।१५५ ।। देव० : पाठसिद्धः श्लोकः ।।१५५ ।। चक्रे० : अथ प्रकारान्तरेण पुनर्गुरोरेव स्वरूपमाहुः - देव० : अथ प्रकारान्तरेण पुनर्गुरोरेव स्वरूपमाह -
धम्मन्नू धम्मकत्ता य सया धम्मपरायणो ।
सत्ताणं धम्मसत्थत्थदेसओ भनए गुरु।।१५६।। चक्रे० : एषाऽपि स्पष्टा, केवलं सदा सर्वकालं धर्मपरायणो न तु द्रष्टारमपेक्ष्य कदाचिदेव ।।१५६।।
देव० : धर्मः श्रुतचारित्रलक्षणस्तं जानातीति धर्मज्ञो युगप्रधानागम इत्यर्थोऽनेन ज्ञानमुक्तम्। धर्मः प्राग्वत्तस्य कर्ताऽनुष्ठायी, अनेन क्रिया प्रतिपादिता । चकारो विशेषणसमुच्चये, तदनेन यदाहु:- किं मोक्षतरोर्बीजम् ? सम्यग्ज्ञानं क्रियासहितमिति तदाविर्भावितम् । सदा सर्वकालं धर्मपरायणो न तु द्रष्टारमपेक्ष्य कदाचिदेव, तदियता स्वार्थ उक्तः । अथ तीर्थप्रवृत्त्यङ्गभूतं देशनारूपं परार्थमाह- सत्त्वानां धर्मशास्त्रार्थदेशको भण्यते गुरुरनेन कामशब्दादिशास्त्रान्तरदेशित्वप्रतिषेधमाह, इति श्लोकार्थः ।।१५६।।।
१. क्षान्त्यादिस्तस्य A.