________________
४-साधुतत्त्वम् गा-१५३, १५४
२१५
सो गुरु वइरि उ तस्सु इत्थु संदेहु न किज्जइ, सीसह सीसु हरंतु जे वनरु नरह भणिज्जइ । सुपरिक्खियई न जस्सु सच्चु संसउ मणिछिनि वि;
देइ सुदेउ-सुधम्मु-सुगुरु गुरुरयणाई तिन्नि वि।।१५३।। चक्रे० : कुण्डलकरूपकं सुगमम्।।१५३।। देव० : द्विभङ्गिकाच्छन्दः सुगमम्, नवरं संसारचारकनिवाससन्त्रस्तस्त्राणमयमितिकृत्वा जन्तुर्गुरुमाश्रितः, स च कुदेशनया कुदेवादिषु देवत्वादिप्रतिपत्तिमुत्पादयता तेन सुतरां तत्र निक्षिप्त इति विश्वस्तघातित्वेन शीर्षापहारिणा वैरिणा तुल्य इति भावः, तथा च -
जह सरणमुवगयाणं जीवाणं निकितई सिरे जो उ ।
एवं आयरिओ वि हु उस्सुत्तं पन्नवितो उ ।। [उपदेशमाला-५१७] इत्यादि।।१५३।। चक्रे० : अथ रत्नत्रयस्यैव स्वरूपमाहुः - देव० : अथ रत्नत्रयस्यैव स्वरूपमाह -
सो जि धम्मु सचराचर जीवहदयसहिउ, सो गुरु जो घरघरणिसुरयसंगमरहिउ । इंदियविसयकसाइहिं देउजुमुक्कमलु;
एहु लेहु रयणत्तउ चिंतियदिनफलु।।१५४ ।। चक्रे० : सुगमम्।।१५४ ।।
देव० : सुगमम्, नवरं सहचरैवर्तन्त इति सहचरास्ते च तेऽचराश्च सचराचराः, अनेन यहिँसयाऽपि धर्मोऽभिहितो यथा -
यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयम्भुवा । यज्ञोऽस्य भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः ।।। औषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा ।
यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युत्सृतिं पुनः ।। [मनुस्मृति-५/३९-४०] १. तस्स इत्थ P.K २. जस्स PK ३. कुंडलकरूपकं T.B.C. ४. घरिणि T.C ५. भावप्रधानत्वात् निर्देशस्य, सहचराचरत्वेन वर्तन्त इति T,B,C