________________
२१४
दर्शनशद्धिप्रकरणम - सम्यक्त्वप्रकरणम
देव० : व्यूढो धृतो गणधरशब्दो गणभृद् ध्वनिः, कैः ? धिया राजन्त इति धीराश्च ते पुरुषाश्च तैः, किमादिभिर्गोतमादिभिर्मकारोऽलाक्षणिक इन्द्रभूतिसुधर्मप्रभृतिभिर्यश्च तं गणधरशब्दं स्वजनशिष्यादिव्यामोहात्स्थापयत्यारोपयत्यपात्रेऽनहें पुरुषे जानन, प्रस्तावादपात्रत्वमनेन च्छद्मस्थपरीक्षया परीक्षितस्य क्वचिदङ्गारमर्दकादाविव व्यभिचारेऽपि न दोषः, स महापापस्तत्कृततीर्थमालिन्याद्यनाचारस्य तन्मूलत्वाद्, इह चैतदपि ज्ञातव्यम्, यथा -
एवं पवत्तिणिसद्दो जो बूढो अज्जचंदणाईहिं ।
जो तं ठवइ अपत्ते जाणंतो सो महापावो ।। [पञ्चवस्तु-१३२०] पात्रं पुनरियम् -
गीयत्था कयकरणा कुलजा परिणामिया य गंभीरा । चिरदिक्खिया य वुड्डा अज्जावि पवत्तिणी भणिया ।। [पञ्चवस्तु-१३१७] एवं चतम्हा तित्थयराणं आराहंतो जहोइयगुणेसु ।
दिज्ज गणं गीयत्थो नाऊण पवत्तिणिपयं वा ।। [पञ्चवस्तु-१३२५] इति गाथार्थः । ।१५२।।
* पञ्चवस्तौ-१३१९ * तथा च -
बूढो गणहरसद्दो गोअमपमुहेहिं पुरिससीहेहिं ।
जो तं ठवेइ अपत्ते जाणंतो सो महापावो ।। व्यूढो गणधरशब्दो गौतमप्रमुखैः पुरुषसिंहैः महात्मभिर्यस्तं स्थापयत्यपात्रे जानानः स महापापो मूढ इति गाथार्थः ।।१३१९ ।। चक्रे० : अयोग्यस्थापनामाश्रित्य दोष उक्तः, सम्प्रत्यसद्देशनामाश्रित्य तमाहुः - देव० : अयोग्यस्थापनामाश्रित्य दोष उक्तः, सम्प्रति कुदेशनामाश्रित्य तमाह -
तिन्नि वि रयणाई देइ गुरु सुपरिक्खियई न जस्सु, सीसहसीसु हरंतु जिह सो गुरु वइरि उ तस्सु ।
१. जस्स PK२. तस्स P.K