________________
४-साधुतत्त्वम् गा-१५२
ससमयपरसमयविऊ गम्भीरो दित्तिमं सिवो सोमो ।
गुणसयकलिओ जुत्तो पवयणसारं परिकहेइ ।। तत्राऽऽर्यदेशोद्भूतः सुखावबोधवचनो भवति ततो देशग्रहणम्, कुलं पैतृकमिक्ष्वाक्वादि, तज्जातश्च यथोत्क्षिप्तभारवहने न श्राम्यति, जातिर्मातृकी, तत्संपन्नो हि विनयादिगुणवान् स्यात् । 'यत्राकृतिस्तत्र गुणा भवन्ति' इति रूपग्रहणम्, संहननधृतियुतो न व्याख्यानादिषु खेदमेति, अनाशंसी श्रोतृभ्यो न वस्त्राद्याकाङ्क्षति, अविकत्थनो हितमितभाषी, अमायी विश्वास्यः, स्थिरपरिपाटिः स्थिरपरिचितग्रन्थस्य सूत्रार्थगलनाभावात्, ग्राह्यवाक्यः सर्वत्रास्खलिताज्ञः, जितपरिषद् राजादिसदस्यपि न क्षोभमुपयाति, जितनिद्रो निद्राप्रमादिनः शिष्यान् सुखेनैव बोधयति, मध्यस्थः शिष्येषु समचित्तः, देशकालभावज्ञः सुखेनैव गुणवद्देशादौ विहरति, आसनलब्धप्रतिभो द्राक् परवाद्युत्तरदानसमर्थः, नानाविधदेशभाषाज्ञो नानादेशजान् सुखेनैवावबोधयति, ज्ञानाद्याचारपञ्चकयुक्तः श्रद्धेयवचनः स्यात्, सूत्रार्थतदुभयविधिज्ञ उत्सर्गापवादप्रपञ्चं यथावद् ज्ञापयति, आहरणं दृष्टान्तः, हेतुरन्वयव्यतिरेकवान्, कारणं दृष्टान्तादिरहितमुपपत्तिमात्रम्, नया नैगमादयः, एषु निपुणः सुखेनैतान् प्रयुङ्क्ते, ग्राहणाकुशलो बह्वीभियुक्तिभिः शिष्यान् बोधयति, स्वसमयपरसमयज्ञः सुखेनैव तत्स्थापनाव्यूहौ विधत्ते, गम्भीरोऽलब्धमध्यः, दीप्तिमान् पराधृष्यः, शिवहेतुत्वाच्छिवः, तदधिष्ठिते देशे मार्याद्युपशमनात्, सौम्यः सर्वजनमनोनयनरमणीयः, गुणशतकलितः प्रश्रयाद्यनेकगुणोपेतो युक्तोऽर्हत्प्रवचनसारं परिकथयितुं प्रवचनानुयोगयोग्यो भवतीत्यर्थः ।।१२६ ।।
___* उपदेशमालायाम्-११ * xxx २०-ज्ञानाचार २१-दर्शनाचार २२-चारित्राचार २३-तपाचार २४-वीर्याचाररूपपञ्चविधाचारयुक्तः श्रद्धेयवचनो भवति, २५-सूत्रार्थोभयज्ञः सम्यगुत्सर्गापवादप्ररूपको भवति, २६-उदाहरण २७-हेतु २८-कारण २९-नयनिपुणस्तद्गम्यान् भावान् सम्यक्प्ररूपयति नाऽऽगममात्रमेव शरणीकरोति, तत्रोदाहरणानि वयादिसिद्धौ महानसादयो दृष्टान्ताः, हेतवो ज्ञापका धूमवत्त्वादयः कारणान्युत्पादकानि परिणाम्यादीनि कुम्भादेम॒त्पिण्डादिवत्, नया नैगमादयः । xxx
चक्रे० : अथ किमर्थं पुनः पुनर्गुरोर्गुणान्वेषणं क्रियते ? इत्याहुः - देव० : अथ किमर्थमित्थं पुनः पुनर्गुरोर्गुणान्वेषणं क्रियते ? इत्याह -
वूढो गणहरसद्दो गोयममाईहिं धीरपुरुसेहिं ।
जो तं ठवइ अपत्ते जाणतो सो महापावो ।।१५२।। चक्रे० : स्पष्टा ।।१५२।।