________________
२१२
दर्शनशद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
पंचविहे आयारे जुत्तो सुत्तत्थतदुभयविहिण्णू । आहरण-हेउ-उवणय-नयनिउणो गाहणाकुसलो ।। ससमयपरसमयविऊ गंभीरो दित्तिमं सिवो सोमो ।
गुणसयकलिओ एसो पवयणउवएसओ य गुरू ।। 'देस'त्ति १-इह सर्वत्र सूचनमात्रत्वात् सूत्रस्यार्यदेशोत्पन्न एव गुरुर्भवतीत्यर्थः, तथा २-'कुल'त्ति पितृपक्षशुद्धः, ३-'जाइ'त्ति मातृपक्षशुद्धः, तथा ४-अरूपस्यानादेयत्वादिप्रसङ्गतो रूपवानेव गुरुः, ५-संहननेन विशिष्टशारीरसामर्थ्यरूपेण सम्पन्नः, ६-संयमादिनिर्वाहणे धृत्या मानसावष्टम्भबलरूपया युक्तः, ७-धर्मकथादिप्रवृत्तौ वस्त्रभोजनाद्याशंसादिविरहितः, ८-स्वल्पेऽपि केनचिदपराद्धे तुच्छतया पुनः पुनस्तदुत्कीर्तनं विकत्थनं तद्रहितः, ९-मायाविनिर्मुक्तः, १०-स्थिरपरिपाटिरविस्मृतसूत्रार्थः, ११-गृहीतवाक्य आदेयवचनः, १२-जितपर्षद् महत्यामपि पर्षदि क्षोभरहितः, १३-जितनिद्रः, १४-मध्यस्थो रागद्वेषरहितः, १५-देशौचित्येन यः प्रवर्त्तते स देशज्ञः, १६-एवं कालज्ञः, १७-भावः पराभिप्रायस्तदौचित्यप्रवर्त्तको भावज्ञः, १८-आसन्ना झगित्येव लब्धा कर्मक्षयोपशमेनाविर्भूता प्रतिभा परतीथिकादीनामुत्तरप्रदानशक्तिर्यस्येत्यासनलब्धप्रतिभः, १९-नानाविधदेशभाषाकुशलः, २०-२४ ज्ञानदर्शनचारित्रतपोवीर्यविषयपञ्चविधाचारयुक्तः, २५-सूत्रार्थतदुभयवेत्ता, २६-आहरणं दृष्टान्तः, २७-साध्यार्थगमको हेतुः कृतकत्वादिः, २८-दृष्टान्तदर्शितार्थस्य प्रकृतयोजना उपनयः, २९-नया नैगमादय एतेषु सर्वेष्वप्याहरणादिषु निपुणः, ३०-ग्राहणाकुशलः प्रतिपादकशक्तियुक्त इत्यर्थः, ३१-स्वसमयवेत्ता, ३२-परसमयवेत्ता, ३३-गम्भीरः परैरलब्धमध्यः, ३४-दीप्तिमान् तीथिकादीनामसह्यप्रतिभः, ३५-विद्यामन्त्रादिसामर्थ्यादशिवोपशमकर्तृत्वेन शिवहेतुत्वाच्छिवः, ३६-सौम्योऽरौद्रप्रकृतिरिति षट्त्रिंशद्गुणोपेतो गुरुर्विज्ञेयः, उपलक्षणत्वाच्चामीषामपरैरपि गुणशतैः कलितः, एष प्रवचनोपदेशको गुरुर्भवतीति गाथाचतुष्टयपरमार्थः ।।३३०-३३ ।।
* धर्मरत्नप्रकरणे-१२६ * प्रकृतं सूत्रं व्याख्यानयन्नाह-गुरवः षट्त्रिंशद्गुणयुक्तः, तथाहि -
देस-कुल-जाइ-रूवी संघयणी धिइजुओ अणासंसी । अविकत्थणो अमाई थिरपरिवाडी गहियवक्को ।। जियपरिसो जियनिद्दो मज्झत्थो देस-काल-भावन्नू ।
आसनलद्धपइभो नाणाविहदेसभासन्नू ।। पंचविहे आयारे जुत्तो सुत्तत्थतदुभयविहिन्नू । आहरण-हेउ-कारण-नयनिउणो गाहणाकुसलो ।।