________________
४-साधुतत्त्वम् गा- १६३
संघाइयाण कज्जे चुण्णिज्जा चक्कवट्टिसिन्नंपि ।
ती लद्धीए जुओ लद्धिपुलाओ मुणेयव्वो ।। [ संबोधप्र० ७५३]
अन्ये त्वाहुरासेवनतो यो ज्ञानपुलाकस्तस्येयमीदृशी सञ्ज्ञा, स एव च लब्धिपुलाको न तद्वयतिरिक्तः कश्चिदपर इति प्रतिषेवापुलाकश्च पञ्चधा, ज्ञानदर्शनचरणलिङ्गयथासूक्ष्मभेदात् । तत्र ज्ञानमाश्रित्य पुलाकस्तस्यासारताकारी विराधको ज्ञानपुलाक एवं दर्शनादिपुलाकोऽपि आह चखलिआइदूसणेहिं नाणं संकाइएहिं संमत्तं । मूलोत्तरगुणपडिसेवणाए चरणं विराहेइ ।।
लिंगपुलाओ अन्नं निक्कारणओ करेइ जो लिंगं ।
मणसा अकप्पियाणं निसेवओ होइ अहासुमो ।। [ पञ्चनिर्ग्रन्थी १०, ११]
द्वितीयो नामशब्दस्यात्रापि सम्बन्धाद् बकुशनामा चारित्रीत्यत्रापि योगः । एवमुत्तरत्रापि तत्र बकुशं शबलं कर्बुरमित्यनर्थान्तरम्, बकुशसंयमयोगाद् बकुशः, उपकरणशरीरभेदादयमपि द्विविधः, तत्र वस्त्रपात्राद्युपकरणविभूषानुवर्त्तनशीलः प्रथमः, करचरणनखमुखादिदेहावयवविभूषानुवर्त्ती द्वितीयः, स चायं द्विविधोऽपि पञ्चधा, आभोगाऽनाभोगसंवृत्ताऽसंवृत्तयथासूक्ष्मभेदस्तत्राऽऽभोगः साधूनामकृत्यमेतत् शरीरोपकरणविभूषणमित्येवं ज्ञानम्, तत्प्रधानो कुश आभोगबकुश एवमन्येऽपि, इहाप्युक्तम् -
आभोगे जाणतो करेइ दोसं अयाणमणाभोगे । मूलोत्तरेहिं संवुड विवरीय असंवुडो होइ ।।
२२९
अच्छिमुहमज्जमाणो होइ अहासुहुमओ तहा बकुसो ।
अहवा जाणिज्जंतो असंवुडो संवुडो इयरो ।। [ पञ्चनिर्ग्रन्थीप्र॰ २१,२२] इति । तृतीयः कुत्सितं शीलमस्येति कुशीलः, प्रतिषेवणाकषायभेदादयमपि द्वेधा, तत्र सेवना सम्यगाराधना, तत्प्रतिपक्षस्तु प्रतिषेवणा तया कुशीलः प्रतिषेवणाकुशीलः, स पुनः पञ्चधा ज्ञानादिभेदात्, तत्र
१. सिस्संपि A
-
इह नाणाइ कुसीलो उवजीवं होइ नाणपभिईओ ।
अहसुहमो पुण तुस्सं एस तवस्सित्ति संसारे ।। [ पञ्चनिर्ग्रन्थीप्र० २४ ]