________________
४-साधुतत्त्वम् गा-१४८-१५१
२९-नया नैगम १ सङ्ग्रह २ व्यवहार ३ ऋजुसूत्र ४ शब्द ५ समभिरूढैवम्भूताभिधानाः ६-७ सप्त तेषु निपुणः कुशलोऽनीदृशो हि वचनमात्रेण न बोधयितुमलम्, अत एव ३०-ग्राहणाकुशलः परप्रत्यायनसहः।
तथा ३१- स्वसमयो जैनमतम्, परसमयः शाक्यादिसिद्धान्तस्तौ वेत्तीति तद्विद्, स हि परवादिभिरजय्यो भवति, ३२-गम्भीरोऽतुच्छाशयः. ३३- दीप्तिमान् सप्रतापस्तादृशो हि दुष्प्रधृष्यः स्यात् ३४ - शिवो विशिष्टतपोलब्ध्यादिभिः क्षेमकृत्, ३५ - सोमो ऽक्रोधनः पुनः किंविशिष्टः ? ३६ - गुणानां मूलगुणादीनां शतानि, बहुत्वोपलक्षणं चैतत् तैः कलित उपेतो युक्तोऽर्हः परिकथयितुं प्रवचनं द्वादशाङ्गं तस्य सारोऽर्थस्तमिति गाथाचतुष्टयार्थः ।।१४८-१५१।। * बृहत्कल्पभाष्ये- २४१-४४, प्रवचनसारोद्धारे - ५४८ *
केन वेति द्वारम् -
देस-कुल-जाइ-रूवी संघइणी धिइजुओ अणासंसी । अविकत्थणो अमाई थिरपरिवाडी गहियवक्को ।। जयपरसो जियनिद्दो मज्झत्थो देस-काल-भावन्नू । आसन्नलद्धपइभो नाणाविहदेसभासन्नू ।। पंचवि आयारे जुत्तो सुत्तऽत्थतदुभय विहन्नू । आहरण-हेउ-: उ-उवणय - नयनिउणो गाहणाकुसलो ।। ससमय-परसमयविऊ गंभीरो दित्तिमं सिवो सोमो । गुणसयकलिओ जुत्तो पवयणसारं परिकहेउं ।।
२०९
युतशब्दः प्रत्येकमभिसम्बध्यते - देशयुतः कुलयुत इत्यादि । तत्र यो मध्यदेशे जातो यो वाऽर्द्धषड्विंशतिषु जनपदेषु स देशयुतः, स ह्यार्यदेशभणितिं जानाति, ततः सुखेन तस्य समीपे शिष्या अधीयत इति तदुपादानम्, कुलं पैतृकम्, तथा च लोके व्यवहार इक्ष्वाकुकुलजोऽयं नागकुलजोऽयमित्यादिः, तेन युतः प्रतिपन्नार्थनिर्वाहको भवति, जातिर्मातृकी, तया युतो विनयादिगुणवान् भवति, रूपयुतो लोकानां गुणविषयबहुमानभाग् जायते, 'यत्राकृतिस्तत्र गुणा वसन्ति' इति प्रवादात्, संहननयुतो व्याख्यायां न श्राम्यति धृतियुतो नातिगहनेष्वर्थेषु भ्रममुपयाति, अनाशंसी श्रोतृभ्यो वस्त्राद्यनाकाङ्क्षी, अविकत्थनो नातिबहुभाषी, अमायी न शाठ्येन शिष्यान् वाहयति, स्थिरा अतिशयेन निरन्तराभ्यासतः स्थैर्यमापन्ना अनुयोगपरिपाट्यो यस्य स स्थिरपरिपाटिः, तस्य हि सूत्रमर्थो वा न मनागपि गलति, गृहीतवाक्य उपादेयवचनः, तस्य ह्यल्पमपि वचनं महार्थमिव प्रतिभाति ।। २४१ ।।