________________
२०८
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
४-रूपमङ्गोपाङ्गसम्पूर्णता, तद्वानाऽऽदेयवाक्यो भवति, तथाहि –
धम्मोदएण रूवं करिति रूवस्सिणो वि जइ धम्मं ।
गज्झवओ य सरूवो पसंसिमो तेण रूवंति ।। [ ] इत्यादि सर्वगुणाश्रयश्च, यत्राकृतिस्तत्र गुणा वसन्तीतिकृत्वा, ५-संहननी विशिष्टसंहननसंयुक्तः, स हि वाचनादिषु न श्राम्यति, ६-धृतियुतः सर्वत्रानाकूलमनाः, ७-आशंसत इत्येवं शील आशंसी न तथा, श्रोतृभ्यो न वस्त्राद्याकाङ्क्षावान्, ८-अविकत्थनोऽबहुभाषी, अनात्मश्लाघापरो वा, ९-मायी मायावान्, न तथाऽमायी, परिवाराद्यर्थमनुयोगार्थिनः शिष्यान शाठ्येन वाह्यति, १०-स्थिरा निश्चला प्रमादरहितत्वेन परिपाटिः सूत्रार्थपरावर्त्तना यस्य स तथा, ११-गृहीतं वाक्यं येन यस्य वा स तथा, अवधारणावानाऽऽदेयवाक्यो वेति ।
तथा १२-जितेव जिता निःक्षोभत्वेन पर्षत्सभा येन स तथा, स हि सदसि न मुह्यति, १३-जितनिद्रस्तस्य हि जागरूकत्वेन सूत्रार्थो न नश्यतः, लघु च शिष्यान् समयोदधेः पारं प्रापयति, १४-मध्यस्थो रागद्वेषरहितत्वेन शिष्येषु समचित्तः, १५-देशः साधुभावितादिः, १६-कालः सुभिक्षादिः, १७-भावः क्षायोपशमिकादिस्ताञ्जानातीति तज्ज्ञः, स हि यथौचित्येन विहरति धर्मकथां च कुरुते, १८-आसन्नाः प्रश्नानन्तरमेव लब्धा प्रतिभोत्तरदाने बुद्धिर्येन स तथा प्रत्युत्पन्नमतिरित्यर्थः, स हि क्वचिद्वादिना पृष्टस्तत्कालनिर्णयदायित्वेन प्रवचनप्रभावको भवति, १९-नानाविधदेशभाषाज्ञोऽयं हि नानादेशजविनेयावबोधको भवतीति ।
तथा २०-२४ पञ्चविध आचारे ज्ञानादौ युक्त उद्युक्तः, स हि स्वयमुद्यतः शिष्यानुद्यमयति, २५-'सुत्तत्थतदुभयविहिण्णू' सूत्रार्थतदुभयानां विविधान् भेदान् जानातीति ज्ञाता, ततश्च सूत्रज्ञो हीनाऽत्यक्षरादिदोषविद्, अर्थज्ञोऽविस्मृतशुद्धसम्प्रदायस्तदुभयज्ञः सूत्रार्थकुशल इह च तदुभयपदेनैव गतार्थत्वे सूत्रार्थपदोपादानेन चतुर्भङ्गी सूचयति, तदुभयपदेन च तृतीयभङ्गस्य ग्राह्यतामाह, एवंविध एव ह्यनुयोगयोग्यो भवति, २६-उदाह्रियते प्रस्तुतहेत्वाश्रयदर्शनाय प्रयुज्यत इत्युदाहरणं दृष्टान्तः, २७-हिनोति गमयति विवक्षितमर्थमिति हेतुरन्वयव्यतिरेकलक्षणः, २८-कारणं दृष्टान्तादिरहितमुपपत्तिमात्रं, यथा निरुपमसुखः सिद्धो ज्ञानाऽनाबाधप्रकर्षात्, अन्यत्र हि निरुपमसुखासम्भवान्नोदाहरणमस्ति, उक्तं च -
हेऊ अणुगमवइरेग-लक्खणो सज्झवत्थुपज्जाओ ।। आहरणं दिलुतो कारणमुववत्तिमेत्तं तु ।। [विशेषा. भा. १०७७]