________________
४-साधुतत्त्वम् गा-१४८-१५१
२०७
१२-जितपरिषत्, १३-जितनिद्रः, १४-मध्यस्थः शिष्येषु समचित्तः, १५-देशः साधुभावितादिः, १६-कालः सुभिक्षादिः, १७-भावः क्षायोपशमिकादिस्तान् जानातीति तज्ज्ञः, स हि यथौचित्येन विहरति धर्मकथां च कुरुते, १८-आसना प्रश्नानन्तरमेव लब्धा प्रतिभा उत्तरदाने बुद्धियेन स तथा, १९-नानाविधदेशभाषाज्ञः।
२०-२४ पञ्चविध आचारे ज्ञानादौ युक्तः, २५-सूत्रार्थतदुभयविधिज्ञ इह तदुभयपदेनैव गतार्थत्वात् सूत्रार्थपदोपादानं चतुर्भङ्ग्यर्थम् । तदुभयपदेन च तृतीयभङ्गस्य ग्राह्यतोक्ता, २६-उदाहरणं दृष्टान्तः, २७-हेतुरन्वयव्यतिरेकवान्, २८-कारणं दृष्टान्तादिरहितमुपपत्तिमात्रम्, यथा निरुपमसुखः सिद्धो ज्ञानाऽनाबाधप्रकर्षात्, अन्यत्र निरुपमसुखाभावान्नास्त्यत्र दृष्टान्तः, उक्तं च -
हेऊ अणुगमवइरेगलक्खणो सज्झवत्थुपज्जाओ ।
आहरणं दिटुंतो कारणमुववत्तिमित्तं तु ।। [विशेषा. भा. १०७७] साध्यमनित्यत्वम्, तदाधारभूतं वस्तु शब्दः, तस्य पर्यायः क्रमभावी धर्मः कृतकत्वरूपः ।
२९-नया नैगम-संग्रह-व्यवहार-ऋजूसूत्र-शब्द-समभिरूढ-वंभूताऽऽख्याः सप्त तेषु निपुणः, अनीदृशो हि वचनमात्रेण न बोधयितुमलम् । अत एव ३०-ग्राहणाकुशलः परप्रत्यायनक्षमः।
३१-स्वसमयपरसमयवित्, ३२-गम्भीरोऽतुच्छः ३३-दिप्तिमान् सप्रतापः, ३४-शिवो विशिष्टतपोलब्ध्यादिभिः क्षेमकृत् ३५-सोमोऽक्रोधनः, ३६-गुणानां मूलगुणादीनां शतानि बहुत्वोपलक्षणं चैतत्तैः कलितो युक्तोऽर्हः प्रवचनसारं सिद्धान्तार्थं परिकथयितुमिति गाथाचतुष्टयार्थः, एवं रूपगुणग्रामसमन्वितश्चाचार्यो दर्शनप्रभावको भवति, आर्यखपुटाचार्यवत् ।।१४८-१५१।।
देव० : देशकुलजातिरूपाण्यतिशायीनि विद्यन्ते यस्य स तथा तत्र १-देशो मध्यदेशः सार्द्धपञ्चविंशतिजनपदरूपो वा तदुत्पन्नस्य हि वचनं शिष्याः सुखेनैवाऽवगच्छन्ति, २-कुलमिक्ष्वाकुप्रभृति, ३-जातिर्मातृसमुत्था, एतदुपेतो हि प्रतिपन्नार्थनिर्वाहको भवति यदुच्यते
अभिजातः प्रतिपन्नं त्यजति न कृच्छ्रेऽपि महति सम्प्राप्तः ।
पङ्कोपलादिविषमेप्युज्झति पथि किं धुरं धवल: ।। [ ] १. ज्ञानाऽवबोधप्रकर्षात् र