________________
२१०
करणम् - सम्यक्त्वप्रकरणम
जितपरिषन्न महत्यामपि पर्षदि क्षोभमुपयाति, जितनिद्रो रात्रौ सूत्रमर्थं वा परिभावयन् न निद्रया बाध्यते, मध्यस्थः सर्वेषु शिष्येषु समचित्तः, देशं कालं भावं जानातीति देश-काल-भावज्ञः, स हि देशं कालं भावं च लोकानां ज्ञात्वा सुखेन विहरति, शिष्याणां चाभिप्रायान् ज्ञात्वा तान् सुखेनानुवर्त्तयति, आसनलब्धप्रतिभः परवादिना समाक्षिप्तः शीघ्रमुत्तरदायी, नानाविधानां देशानां भाषा जानातीति नानाविधदेशभाषाज्ञः, स हि नानादेशीयान् शिष्यान् सुखेन शास्त्राणि ग्राहयति ।।२४२।।
पञ्चविध आचारो ज्ञानाचारादिरूपस्तस्मिन् युक्त उद्युक्तः, स्वयमाचारेष्वस्थितस्यान्यानाचारेषु प्रवर्त्तयितुमशक्यत्वात्, सूत्रा-ऽर्थग्रहणेन चतुर्भङ्गी सूचिता-एकस्य सूत्रं नार्थः, द्वितीयस्यार्थो न सूत्रम्, तृतीयस्य सूत्रमप्यर्थोऽपि, चतुर्थस्य न सूत्रं नाप्यर्थः, तत्र तृतीयभङ्गग्रहणार्थं तदुभयग्रहणम्, सूत्रा-ऽर्थतदुभयविधीञ्जानातीति सूत्रार्थतदुभयविधिज्ञः, आहरणं दृष्टान्तः, हेतुश्चतुर्विधो यापकादिर्यथा दशवैकालिकनियुक्तौ, यदि वा द्विविधो हेतुः कारको ज्ञापकश्च, तत्र कारको घटस्य कर्ता कुम्भकारः, ज्ञापको यथा तमसि घटादीनामभिव्यञ्जकः प्रदीपः, उपनय उपसंहार नया नैगमादयः, एतेषु निपुण आहरण-हेतूपनय-नयनिपुणः, स हि श्रोतारमपेक्ष्य तत्प्रतिपत्त्यनुरोधतः क्वचिद् दृष्टान्तोपन्यासं क्वचिद् हेतूपन्यासं करोति, उपसंहारनिपुणतया सम्यगधिकृतमर्थमुपसंहरति, नयनिपुणतया नयवक्तव्यतावसरे सम्यक्प्रपञ्चं वैविक्त्येन नयानभिधत्ते, ग्राहणाकुशलः प्रतिपादनशक्त्युपेतः ।।२४३।।
स्वसमयं परसमयं वेत्तीति स्वसमयपरसमयवित्, स च परेणाक्षिप्तः सुखेन स्वपक्षं परपक्षं च निर्वहति, गम्भीरोऽतुच्छस्वभावः, दीप्तिमान् परवादिनामनुद्धर्षणीयः, शिवोऽकोपनः, यदि वा यत्र तत्र वा विहरन् कल्याणकरः, सोमः शान्तदृष्टिः, गुणा मूलगुणा उत्तरगुणाश्च तेषां शतानि तैः कलितो गुणशतकलितः, युक्तः समीचीनः प्रवचनस्य द्वादशाङ्गस्य सारमर्थं कथयितुम् ।।२४४।।
* दशवैकालिकनियुक्तौ-५ * 'केण'त्ति केनानुयोगः कर्त्तव्य इति वक्तव्यम्, तत्र य इत्थम्भूत आचार्यस्तेन कर्त्तव्यः, तद्यथा
देस-कुल-जाइ-रूवी संघयणधिइजुओ अणासंसी । अविकत्थणो अमाई थिरपरिवाडी गहियवक्को।। जियपरिसो जियनिद्दो मज्झत्थो देस-काल-भावन्नू ।
आसत्रलद्धपइभो णाणाविहदेसभासनू ।। पंचविहे आयारे जुत्तो सुत्तत्थतदुभयविहिण्णू ।
आहरण-हेउ-कारण-णयनिउणो गाहणाकुसलो ।। ससमयपरसमयविऊ गंभीरो दित्तिमं सिवो सोमो । गुणसयकलिओ जुग्गो पवयणसारं परिकहेउं ।।