________________
२०४
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
चारि चोराभिमरे हियमारिय संक- काउ-कामा वा । भुत्तात्तोहाणे (भुक्तभोगोऽभुक्तभोगो वाऽवधावनं कुर्यात्) करिज्ज वा आसंसपओगं ।। [ निशीथसू० १३० ]
कष्यन्ते क्लिश्यन्ते प्राणिनोऽस्मिन्निति कषः संसारस्तमयन्ते गच्छन्त्येभिरसुमन्त इति कषायाः । यदि वा कषाया इव कषायाः, यथाहि तुवरिकादिकषायकलुषिते वाससि मञ्जिष्ठादिरागः श्लिष्यति चिरं वाऽवतिष्ठते, तथैतत् कलुषिताऽऽत्मनि कर्म सम्बध्यते चिरस्थितिकं च जायते तदायत्तत्वात् तत् स्थितेः, 'ठिइ अणुभागं कसायओ कुणइ' इति वचनात् । ते च क्रोधमानमायालोभाभिधानास्तत्र क्रोधो मोहनीयोदयसम्पाद्यो जीवस्य परिणतिविशेषः क्रोधः, एवमितरेष्वपि ।
संज्ञानं संज्ञा चैतन्यं तच्चासातवेदनीयमोहनीयकर्मोदयजन्यविकारयुक्तमाहारसञ्ज्ञादित्वेन व्यपदिश्यते । तत्राऽऽहारसंज्ञाऽसातवेदनीयसमुत्थ आहाराभिलाषः, भयसंज्ञा भयमोहनीयसम्पाद्यो जीवपरिणामः, मैथुनसंज्ञा वेदोदयजनितो मैथुनाऽभिलाषः परिग्रहसंज्ञा चारित्रमोहोदयकृतः परिग्रहाभिलाषः ।
पिण्डः समयपरिभाषयाऽऽहारः, स चाऽशनपानखादिमस्वादिमरूपस्तद्विभागश्चैवम् -
असणं ओयणसत्थुगमुग्गजगाराइ खज्जगविही य । खीराइ सूरणाई मंडगपभिई य विन्नेयं ।। पाणं सोवीरजवोदगाइ चित्तं सुराइयं चेव । आउक्काओ सव्वो कक्कडगजलाइयं च तहा ।। भत्तोसं दंताई खज्जूरं नालिकेरदखाई । चिब्भडिअंबगफणसाइ बहुविहं खाइमं नेयं ।। दंतवणं तंबोलं चित्तं तुलसीकुहेडगाई य । महुपिप्पलिसुंठाई अणेगहा साइमं होइ ।। [ पञ्चाशक-५/२७-३०]
'
उपसृजन्ति प्रतिपन्नार्थत्यागतोऽप्रधानीभवन्त्येभिरसुमन्त इत्युपसर्गास्ते च दैव्यमानुषतैरश्चात्मसंवेदनीयरूपाः । १-तत्र दैव्या हास्यप्रद्वेषविमर्शपृथग्विमात्राप्रभवाः, पृथग्भिन्ना विविधा मात्रा हासादिवस्तुरूपाः पृथग्विमात्राः, तथा हि हासेन कृत्वा प्रद्वेषेण करोतीत्येवं संयोगाः कार्याः,